Book Title: Sanskrut Nibandh Shatakam
Author(s): Kapildev Dvivedi
Publisher: Vishvavidyalay Prakashan

View full book text
Previous | Next

Page 320
________________ सहसा विदधीत न क्रियाम् ३०३ सुचिन्त्य चोक्तं सुविचार्य यत्कृतं सुदीर्घकालेऽपि न याति विक्रियाम् । हितोपदेशः १-२२ ये चाविचार्य कर्मणि प्रवर्तन्ते, तेषां प्रवृत्तिरज्ञानमूला। अज्ञानं हि सर्वासामापदामास्पदम् । अज्ञानावृतत्वात् तेषां कर्मणां दुःखावाप्तिरेव सुलभा । तादृशा जना दिङ्मूढा इव सुखं दुःखमिति मन्यन्ते, दुःखं च सुखम्, पापं सुखसाधनमिति, पुण्यं च दुःखसाधनमिति । एवं ते व्यसनशतशरव्यतामुपगच्छन्ति, प्रत्यहमवनति चोपयान्ति । अत उक्तं भर्तृहरिणा विवेकभ्रष्टानां भवति विनिपातः शतमुखः। नीति० १० सहसा विदधीत न क्रियाम्-विपश्चितो हि विचार्य सर्वमपि क्रियाकलापं कर्मणि प्रवर्तन्ते । सुधियामवनिभृतां चैष परमो गुणो यद्विमृश्य ते कर्मसु प्रवृत्तिमादधते । भूभृतां मन्त्रशक्तिविचारमूलैव । किं कार्य कश्च तस्योपाय इति भृशं विविच्य ते कर्तव्यं कर्म निश्चिन्वन्ति । यद्यविचार्यैव निश्चीयते किञ्चित् तहि तत्फलं दुःखावहमेव भविता। एवं विद्वांसोऽपि यत् किञ्चिदपि स्यात् कर्तव्यम्, तत्र परिणति प्रधानतोऽवधारयन्ति । नहि ते सहसा कर्तव्यमकर्तव्यं वा विनिश्चित्य कर्मसु प्रवर्तन्ते। सहसा विहितं विधेयं दुःखं लम्भयति, चेतसि च शल्यतुल्यमाघातं विधत्ते । अतः साधूक्तं भर्तृहरिणा गुणवदगुणवद्वा कुर्वता कार्यमादौ परिणतिरवधार्या यत्नतः पण्डितेन । अतिरभसकृतानां कर्मणामाविपत्ते र्भवति हृदयदाही शल्यतुल्यो विपाकः ॥ नीति० ९९ चिरकारक भद्रं ते--एष एवाभिप्रायश्चरकसंहितायामप्युपलभ्यते'परीक्ष्यकारिणो हि कुशला भवन्ति', 'नापरीक्षितमभिनिविशेत', 'सम्यक्प्रयोगनिमित्ता हि सर्वकर्मणां सिद्धिरिष्टा । व्यापच्चासम्यक्प्रयोगनिमित्ता'। भगवता चरकेणापि कर्तव्यस्य कर्मणः परीक्षणमनिवार्यत्वेन गण्यते । यदि सम्यग् विचार्य कर्तव्यं निर्धार्यते, तर्हि तस्य साफल्यमपि प्रागेवानुमातु पार्यते । अविचार्य कृते कर्मणि न केवलमसाफल्यमेव, अपितु विपद्, शरीरक्लेशः, साधनात्ययः, प्रत्यवायावाप्तिश्चापि । महाभारतेऽपि व्यासेन सुविचार्य कर्मप्रवृत्तिरुपदिष्टा । विमृश्यकारी सुखमेधते, श्रियमश्नुते, प्रत्यूहानपहन्ति, विपद् विदारयति, साध्यं साधयति च । उक्तं च महाभारते चिरकारक भद्रं ते, भद्रं ते चिरकारक' ।। __ मूढः परप्रत्ययनेयबुद्धिः--अनालोच्य शुभाशुभं जनो यत् कर्मणि प्रवर्तते, तस्य मूलमज्ञानमेव । अज्ञानावृतचेतसो हि मिथ्यामाहात्म्यगर्वनिर्भराः, प्राज्ञंमन्याः, कर्तव्याकर्तव्य विवेचनमप्यात्मप्रज्ञापरिभवत्वेनाकलयन्ति, न ते

Loading...

Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350