Book Title: Sanskrut Nibandh Shatakam
Author(s): Kapildev Dvivedi
Publisher: Vishvavidyalay Prakashan
View full book text
________________
८९. उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीः
( १. नास्त्युद्यमसमो बन्धुः २. क्रियासिद्धिः सत्त्वे भवति महतां नोपकरणे, ३. उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः । )
को नामोद्योगः ? -- एकोद्देश्येन सावहितेन चेतसा श्रमपूर्वं कृतं कर्म उद्योग इत्यभिधीयते । उद्योग एव उद्यम - पुरुषार्थ - अध्यवसाय प्रयत्नादिभिः शब्दैर्व्यवह्रियते । उद्योगे उद्यमे च महत्त्वाकाङ्क्षायाः, उत्कर्षस्य, प्रगतेः, विकासस्य, समुन्नतेश्च समन्वयोऽभीष्यते । उद्योग एव सकलेऽपि लोके जीवनस्य सर्वविधाम् आकाङ्क्षां सर्वविधं च मनोरथं पूरयति । स्वाभिलषितपूर्तये उद्योगाश्रयणम् अनिवार्यम् ।
उद्योगस्योपयोगित्वम् — सर्वोऽपि लोकः सुखम् अभिलष्यति, वैभवं लिप्सते, चिकीर्षितं विधित्सति, स्वकामनानुरूपं कर्मजातं निष्पादयितुम्, इच्छति च । तत्साधनाय उद्योगमन्तरेण नान्यत् साधनम् । उद्यम एव मनोबलविवर्धनपुरःसरं कर्मणि नियोजयति, चेतः प्रेरयति, जीवनम् उद्बोधयति, उत्साहं संचारयति, कार्यक्षमतां विवर्धयति, आत्मिक शक्ति स्वाभिमानं च समेधयति । एवम् उद्यमस्य सर्वासु क्रियासु अनिवार्यत्वं प्रेक्ष्यते । उद्यमेनैव सर्वाभीष्टलाभो वैभवावाप्तिश्चेत्युद्योग आश्रीयते । उक्तं च
उद्योगिनं पुरुषसहमुपैति लक्ष्मीर्देवेन देयमिति कापुरुषा वदन्ति । दैवं निहत्य कुरु पौरुषमात्मशक्त्या, यत्ने कृते यदि न सिध्यति कोऽत्र दोषः ॥
आलस्यम् उद्योगस्य परमोऽरातिः । सालसं न श्रीविन्दति । लक्ष्मीः श्रीः समृद्धिश्च सोत्साहं महोद्यमं कठिन कर्मोपशमित्त प्रत्यूहनिवहं दृढनिश्चयविदारितसंशीति-ध्वान्तमेव धीरधौरेयं वीरवरेण्यं च वृण्वते । उद्यमम् अन्तरेण सिंहोऽपि मृगादानेऽक्षमः । उद्यमम् आश्रित्येव पिपीलकाऽपि योजनानां सहस्रं याति । तुच्छाः पतत्रिणश्च योजनशतम् उड्डीयन्ते । यत्नाभावे वैनतेयोऽपि पदैकमपि प्रसतु न क्षमते । अतएवोच्यते
मनोरथैः ।
आलस्यं हि मनुष्याणां शरीरस्यो महान् रिपुः । नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति ॥ उद्यमेन हि सिध्यन्ति कार्याणि न नहि सुप्तस्य सिंहस्य प्रविशन्ति योजनानां सहस्रं तु शनैर्गच्छेत् अगच्छन् वैनतेयोऽपि पदमेकं न
मुखे मृगाः ॥ पिपीलिका ।
गच्छति ॥
नास्त्युद्यमसमो बन्धुः -- को नाम बन्धुः ? यो हि विषमायां स्थितो, विषमे काले, विपन्नायां चावस्थायां साहाय्यम् आचरति, सहयोगम् आविर्भाव

Page Navigation
1 ... 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350