Book Title: Sanskrut Nibandh Shatakam
Author(s): Kapildev Dvivedi
Publisher: Vishvavidyalay Prakashan
View full book text
________________
९१. योगः कर्मसु कौशलम्
( १. कर्मण्येवाधिकारस्ते०; २. कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः । ) कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः - 'यतोऽभ्युदयनिःश्रेयससिद्धिः स धर्म:' ( वैशेषिक० ) इति व्याहरता महर्षिणा कणादेन, 'भोगापवर्गार्थं दृश्यम्' ( योग० २-१८ ) इति च प्रतिपादयता महर्षिणा पतञ्जलिना साध्विदं निर्दिश्यते यद् जीवनस्य लक्ष्यं लौकिक- पारलौकिकोभय-सुखावाप्तिः । नान्तरेण कर्म लौकिकी पारलौकिकी वा सिद्धिः साध्या । कर्मणैव जीवनस्य साफल्यम् । कर्मैव स्वाभीष्टसाधन-पुरःसरं मोक्षावाप्तिमपि साधयति । अतएव यजुर्वेदे आदिश्यते यत् कर्माणि कुर्वन्नेव शतवर्षं यावद् जिजीविषेत् । निष्कामकर्मभावनया कर्मकरणेन न बन्धनावाप्तिः, न च कर्मफलावलेपः । उक्तं चकुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः ।
एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे ॥ यजु० ४०-२ कर्मण्येवाधिकारस्ते— कार्यप्रवृत्तिमन्तरेण जीवने न किंचित् साफल्यं संभाव्यते । अतएव कर्मणोऽनिवार्यत्वं शस्यते निर्दिश्यते च । उक्तं चनियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः ।
शरीरयात्रापि च ते न प्रसिध्येदकर्मणः ॥ गीता ३-८
कृतेऽपि कर्मणि कथमिव कर्म बन्धनसाधनं न स्याद् इति जिज्ञासायां प्रोच्यते यद् इन्द्रियनिग्रह - पुरःसरम् अनासक्तिभावनया कृतं कर्म न बन्धन हेतुत्वं भजते । अतएवोच्यते
स्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन ।
कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते ॥ गीता ३-७
एवं गीतायां प्रतिपाद्यते यद् मानवेन स्वजीवन निर्वाहार्थम्, आजीविकासंचालनार्थम्, वृत्तिप्रवर्तनार्थं च कर्म कार्यम् । तच्च अनासक्ति भावनया विधेयम्, न च फलाभिलाषस्तत्र श्रेयस्करः । फलकामनाऽभावेऽपि अकर्मणि प्रवृत्ति: सर्वथा दुःखायैव । अतएवोच्यते-
कर्मण्येवाधिकारस्ते मा फलेषु कदाचन ।
मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि ॥ गीता २-४७ योगः कर्मसु कौशलम् - - कर्मसु कौशलमेव योगः । किमत्र कर्मकौशलेनाभिप्रेतम् ? कुशान् लाति छिनत्ति इति कुशलः । यथा सावधानेन तीक्ष्णकुशाग्रच्छेदनेन कुशलत्वं सिध्यति, तथैव कर्म-विषयेऽपि कुशलत्वम् इष्यते । कर्म द्विविधम्- - १. सुखोदर्कम्, २. दुःखोदकं च । सकामभावनया फललिप्सया च क्रियमाणं कर्म मनोनुकूल - फल - लाभाभावे दुःखोदर्कम् । निष्कामभावनया च क्रियमाणं कर्म फलेप्साऽभावात् सुखोदकं सुखसाधकं च । अतएव भगवता

Page Navigation
1 ... 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350