Book Title: Sanskrut Nibandh Shatakam
Author(s): Kapildev Dvivedi
Publisher: Vishvavidyalay Prakashan

View full book text
Previous | Next

Page 316
________________ .९२. गुणाः पूजास्थानं गुणिषु न च लिङ्ग न च वयः ( १. गुणैर्गौरवमायाति न महत्यापि सम्पदा; २ गुरुतां नयन्ति हि गुणा न संहतिः; ३. तेजसां हि न वयः समीक्ष्यते; ४. योऽनूचानः स नो महान् ।) गुणाः पूजास्थानम्-संसारेऽस्मिन् सन्ति बहनि वस्तुनि, यानि पुरुष संमानं लम्भयन्ति, यथा धनम्, वैभवम्, कला, सौन्दर्यम्, विद्या, चारित्र्यादिकं च। तत्र महाकवेर्भवभूतेर्मतमिदं यत्-न सौन्दर्यादिना, न लिङ्गविशेषण पुंस्त्वेन स्त्रीत्वेन वा, न च वैभवेन गुरुत्वम् आसाद्यते, अपि तु गुणैरेव गौरवम् अवाप्यते । गुणगौरवसंपन्ना भुवि भूपतिभिरपि आद्रियन्ते संमान्यन्ते च । किनु कारणं यद् ऋषयो महर्षयो यतयः संन्यासिनश्च सर्वलोकवन्द्यतां समधिगच्छन्ति ? तत्र गुणगौरवम्, चारित्र्यादिमहत्त्वम्, तपःपावनत्वादिकं च तेषां गुणोत्कर्षे हेतुः । यत्र यत्र गुणवत्त्वम् तत्र तत्रादरास्पदत्वम् । गुणा ब्रह्मणोंऽशरूपेण मानवे संस्थिताः । तेषां समुत्कर्षो जीवने ब्रह्मत्वाधानाद् ज्योतिज्वलयति, तेजः प्रवर्तयति, ओजश्च विकासयति । अतएव गुणवृद्धेषु ज्ञानवृद्धेषु च न वयः संलक्ष्यते । एतदेव कालिदासेन समर्थ्यते यत् तेजस्विनां वयो न गण्यते । 'तेजसां हि न वयः समीक्ष्यते' ( रघु० ११-१)। यः कोऽपि वा गुणगौरव संपन्नः, सद्भावभूषाभूषितः, ज्ञानालंकृतः, शीलसमन्वितश्च स एव सर्वेषां वन्द्यो मान्यः पूज्यश्च संपद्यते । अतएवोच्यते गुणाः पूजास्थानं गुणिषु न च लिङ्गं न च वयः। उत्तर० ४-११ योऽनूचानः स नो महान्–वेदेषु शास्त्रेषु च विप्राणां ज्ञानतो ज्येष्ठत्वं श्रेष्ठत्वं च स्वीक्रियते । मनुस्मृती कथनमेतद् निदर्शनेन समर्थ्यते यत् शिशुः आङ्गिरसः कविः पितरौ पाठयन् तान् 'पुत्रकाः' इत्युवाच । पितरौ बालस्य कथनम् अनुचितं मन्वानौ देवानुपेत्य तान् अपृच्छताम् । देवास्तु शिशोः कथनं न्याय्यमिति समर्थितवन्तः । आदिष्टं च अज्ञो भवति वै बालः पिता भवति मन्त्रदः। अज्ञं हि बालमित्याहुः पितेत्येव तु मन्त्रदम् ॥ मनु० २-१५३ एतत् स्मृतिशासनम् अनुरुध्य यः कोऽपि ज्ञानोपदेष्टा शिक्षकश्च स पितृतुल्यः, शिष्यश्च पुत्रतुल्यः । न वयसा वित्तेन परिवारादिना वा महत्त्वम्, अपि तु ज्ञान-विज्ञान-निष्णातत्वमेव महत्त्वस्य कारणम् । विप्राणां ज्ञानतः श्रेष्ठत्वम्, क्षत्रियाणां पराक्रमतः, वैश्यानां च धन-धान्य-समद्धया। शूद्राणामेव केवलं जन्मतो वयसा वा ज्येष्ठत्वं गण्यते । उक्तं च न हायनैर्न पलितैर्न वित्तेन न बन्धुभिः। ऋषयश्चक्रिरे धर्म योऽनूचानः स नो महान् ॥ मनु० २-१५४

Loading...

Page Navigation
1 ... 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350