Book Title: Sanskrut Nibandh Shatakam
Author(s): Kapildev Dvivedi
Publisher: Vishvavidyalay Prakashan

View full book text
Previous | Next

Page 308
________________ धर्मार्थकाममोक्षाणाम् आरोग्यं मूलमुत्तमम् २९१ आरोग्यस्यार्थमूलत्वम् - विदितमेवैतत् समेषामपि विद्वदग्रेसराणां यत्'सर्वे गुणाः काञ्चनमाश्रयन्ते', 'यस्यार्थास्तस्य मित्राणि', 'यस्यास्ति वित्तं स नरः कुलीनः', 'हिरण्यमेवार्जय निष्फला गुणाः' इत्यादीनि सुभाषितानि द्रव्यार्जनमेव समर्थयन्ति । अर्थार्जनं वित्तोपार्जनं द्रविणनिचयावाप्तिर्वा किं निःसत्त्वेन, किं रुजाक्रान्तेन किं क्षीणबलेन वा साध्यम् ? अर्थोपार्जने शक्तिमत्त्वस्य, उत्साहस्य, आरोग्यस्य च प्रतिपदम् आवश्यकताऽनुभूयते । अतएव - ‘अनिर्वेदः श्रियो मूलम्’, 'अध्यवसायः श्रियो मूलम्,' 'उद्योगिनं पुरुषसिंहमुपैति लक्ष्मी:', इत्यादिकं व्यादिश्यते । आरोग्यस्य काममूलत्वम् - सांसारिका विषयभोगाः, विलासाः, मृगनयन्यो रमण्याः, विविध-रस-व्यञ्जन-संवलितानि भोज्यानि विविधानि च भौतिकानि सुखानि स्वस्थेनैव कलेवरेणोपभोक्तुं शक्यन्ते । स्वास्थ्याभावे क्षुधोऽपचयः, शिरोवेदनादिवृद्धिः, व्याधिग्रस्तत्वं शक्तिक्षयश्च । एवं नैरोग्यमेव भौतिकविषयोपभोगक्षमताम् आपादयति । आरोग्यस्य मोक्षसाधनत्वम् - मोक्षावाप्तये तपश्चरणं साधनाश्रयणं प्राणायामादिकं चाश्रीयते । तदर्थमपि आरोग्यस्यानिवार्यत्वम् । अतएव गीतायां प्रतिपाद्यते यन्ते । नात्यश्नतस्तु योगोऽस्ति, न चैकान्तमनश्नतः । न चातिस्वप्नशीलस्य, जाग्रतो नैव चार्जुन ॥ गीता ६-१६ युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु । युक्तस्वप्नावबोधस्य योगो भवति दुःखहा ॥ गीता ६-१७ आरोग्यस्य साधनानि - रोगनिदानरूपेणाचार्यैः षट् कारणानि व्याहि अत्यम्बुपानाद् विषमाशनाच्च, दिवा शयाद् जागरणाच्च रात्रौ । संरोधनाद मूत्रपुरीषयोश्च षड्भिः प्रकारैः प्रभवन्ति रोगाः ॥ सर्वाण्येतानि रोगकारणानि सावधानतया परियाणि । स्वास्थ्यलाभाय बहुविधा व्यायामा निर्दिश्यन्ते । यथा - भ्रमणम्, धावनम्, क्रीडनम्, तरणम्, अश्वारोहणम्, मल्लयुद्धम्, इत्यादीनि । छात्रोपयोगिक्रीडासु पादकन्दुकक्रीडा, यष्टिकक्रीडा (हॉकी), करकन्दुक ( वॉलीबाल ) - क्रीडा च रुचिकरा : स्वास्थ्यafधन्यश्च । व्यायामेन शरीरपुष्टिश्चेतः प्रसादश्च । अतएवोच्यते—'स्वस्थे चित्ते बुद्धयः प्रस्फुरन्ति' । स्वस्थे चित्ते ज्ञानोदयः, स्फूर्तिसमन्वयश्च । स्वस्थस्यैव सर्वत्रादरः प्रतिष्ठा च । 'कृशे कस्यास्ति सौहृदम् ।' अतः सिध्यति — 'धर्मार्थकाममोक्षाणाम आरोग्यं मूलमुत्तमम् ।'

Loading...

Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350