Book Title: Sanskrut Nibandh Shatakam
Author(s): Kapildev Dvivedi
Publisher: Vishvavidyalay Prakashan

View full book text
Previous | Next

Page 291
________________ ८३. आशा बलवती राजन् शल्यो जेष्यति पाण्डवान् ( आशा हि परमं ज्योतिः) आशायाः स्वरूपम्-का नामाशा ? कथं चाचरतीयं विप्रियं सुप्रियं वा सर्वस्य लोकस्य ? अस्ति किमावश्यकता जीवने आशाया उपादानस्य परिहारस्य वा? उपादत्ता चेत् किमिति किंचित् साधयति साध्यमिह जगति ? निरस्ता चेत् किं सुफला विफला कुफला वा भवति ? आशाया नामग्राहेण समकालमेव समुपतिष्ठन्ते बहवोऽनुयोगाः। ते क्रमशोऽत्र विविच्यन्ते। तेषामौचित्यमनौचित्यं वाऽवधारयिष्यते सयुक्तिकम् । प्राक् ताबद् विचार्यते-का नामाशा ? आ समन्ताद् अश्नुते व्याप्नोति मानवानां चेतांसीत्याशा। आङ्पूर्वकादश्धातोरच्प्रत्ययेनेतद् रूपं निष्पद्यते । वैदिकवाङ्मये आशावादः-वेदेषूपलभ्यते सर्वत्राशावादस्य प्रवाहः । श्रुतयो मुहुर्मुहुरादिशन्ति मानवम् आशाम् अवलम्ब्य समुन्नत्यै समृद्ध्यै प्रगत्यै च-( क ) वयं स्याम पतयो रयीणाम् ( यजु० १०-२०), (ख ) अग्ने नय सुपथा राये ( यजु० ४०-१६ ), (ग) कृधी न ऊर्ध्वान् चरथाय जीवसे ( ऋ० १-३६-१४ ), (घ ) अदीनाः स्याम शरदः शतम् ( यजु० ३६-२४ ), (ङ) भूत्यै जागरणम्, अभूत्यै स्वपनम् ( यजु० ३०-१७), (च) उच्छ्रयस्व महते सौभगाय ( अथर्व० ३-१२-२), (छ) मयि देवा दधतु श्रियमुत्तमाम्० ( यजु० ३२-१६ ), ( ज ) मह्यं नमन्तां प्रदिशश्चतस्रः ( ऋ० १०-१२८-१)। आशैव जीवने धृति स्फूर्ति शक्तिं चादधाति । तामाश्रित्यैव सर्वविधा समुन्नतिः सुलभा । आशाया महत्त्वम्-आशा नामैषा मानवजीवनस्यास्ति आधारशिला । मानवजीवने यः संचारः प्रगतिरुद्गतिरुन्नतिर्वाऽवलोक्यते, तस्य मूलत्वेनाशायाः संचार एव जीवनेऽवगन्तव्यः । यदि नाम न स्यादाशा जीवने तत्प्रेरकत्वेन, न स्याज्जीवनं प्रगतिशीलम्, उन्नतिपथम् आरूढम्, अभ्युन्नतं च । आशा नाम जीवनेऽनुपमा स्फूर्तिप्रदायिनी काचिदपूर्वा शक्तिः । सैव मुमूर्षावपि जीवनाशां संचारयति । सैव वीरे वीराभिमानित्वम्, शूरे शौर्यम्, विदुषि वैदुष्यम्, धीरे धैर्यम्, साधी साधुत्वं च प्रसारयति । सैव दीने हीने खिन्ने विषण्णे विपन्नेऽपि च धैर्यमादधाति, दुःसहदुःखसहनशक्ति चाविष्करोति चेतसि । नेराश्यस्य घोरायां तमिस्रायामपि सेषाऽऽविर्भावयति जीवनशक्तिप्रदं जाज्वल्यमानं ज्योतिः । न ज्योतिरेतच्चला चपलेव क्षणभङ्गुरम् । जागत्यंदोऽहनिशं शान्तेऽपि स्वान्ते साधकस्य । ज्योतिरेतदेव प्रेरयति मुमुखं मोक्षाधिगमाय, साधकं साधनासिद्ध्यै, वाग्मिनं वाग्-वैशारद्याय, गुणिनं गुणग्रहणाय, विपश्चितं विद्यावैभवाय, कवि

Loading...

Page Navigation
1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350