Book Title: Sanskrut Nibandh Shatakam
Author(s): Kapildev Dvivedi
Publisher: Vishvavidyalay Prakashan

View full book text
Previous | Next

Page 305
________________ २८८ संस्कृत निबन्धशतकम् मायाचारो मायया वतितव्यः-महाभारतकता व्यासेन साधच्यते यद मायाविना सह माययैव वर्तितव्यम् । नीतिकारैर्महाकाव्यकारैश्च शठे शाठ्यमेव समर्थ्यते । नीतिकारैरादिश्यते यत् ‘पयःपानं भुजङ्गानां केवलं विषवर्धनम् ।' कालिदासेनापि निर्दिश्यते यत्-'शाम्येत् प्रत्यपकारेण नोपकारेण दुर्जनः' । महाकविना भासेनापि एतदेव समर्थ्यते–'मृदुर्हि परिभूयते' (प्रतिमानाटक १-१८)। महाकविना श्रीहर्षेण नैषधीयचरिते प्रतिपाद्यते यद् 'आर्जवं हि कुटिलेषु न नीतिः' । महाकविना भारविणा विषयेऽस्मिन् विशदं विविच्यानुमोद्यते यत् खलेषु आर्जवं न नीतिसंमतम् । किरातार्जुनीये तेनाभिधीयते यद् मायाविनः शठा धृश्चेिषव इव मर्मस्थलभेदिनो भवन्ति । तादृशा नराः शाठयेनैव शिक्षणीयाः । यत्र मन्युः क्रोधो वा भवति, तस्यैव नरा वशवर्तिनो भवन्ति, अन्यस्य तु उपहासास्पदत्वं भवति । उक्तं च-- व्रजन्ति ते मूढधियः पराभवं भवन्ति मायाविषु ये न मायिनः। प्रविश्य हि घ्नन्ति शठास्तथाविधानसंवृताङ्गान् निशिता इवेषवः॥ अवन्ध्यकोपस्य विहन्तुरापदां भवन्ति वश्याः स्वयमेव देहिनः। अमर्षशून्येन जनस्य जन्तना न जातहार्देन न विद्विषादरः॥ . किराता० १-३०, ३३ आर्जवं हि कुटिलेषु न नीतिः-महाकविना माघेनापि समर्थ्यते यद् रोगः शत्रुश्च कथमपि नोपेक्ष्यौ, यतो हि तौ वृद्धिमापन्नौ दोषाय विनाशाय च संपद्यते। उत्तिष्ठमानस्तु परो नोपेक्ष्यः पथ्यमिच्छता। समौ हि शिष्टैराम्नातौ वय॑न्तावामयः स च ॥ शिशु० २-१० अरातेः समूलमुन्मूलनेन विना प्रतिष्ठा दुर्लभा, यथा धूलिं पङ्कताम् अप्रापय्य उदकं नावस्थातं शक्नोति । विपक्षमखिलीकृत्य प्रतिष्ठा खलु दुर्लभा । अनीत्वा पङ्कतां धूलिमुदकं नावतिष्ठते ॥ शिशु० २-३४ अन्यत्र च माघेन प्रतिपाद्यते यद् यावदेकोऽपि शत्रुरवशिष्यते तावन्न सुखं शयितुं शक्यम् । तथाविधो दुर्जनः प्रतिपदं क्लेशायैव संजायते । समेषामपि सुराणां समक्षं राहुः सुधांशु ग्रसते क्लिश्नाति च । ध्रियते यावदेकोऽपि रिपस्तावत् कुतः सुखम् । पुरः क्लिश्नाति सोमं हि सैंहिकेयोऽसुरद्रुहाम् ॥ शिशु० २-३५ अतएव साधूच्यते केनापि-'अग्नेः शेषम् ऋणाच्छेषं शत्रोः शेषं न शेषयेत्'।

Loading...

Page Navigation
1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350