Book Title: Sanskrut Nibandh Shatakam
Author(s): Kapildev Dvivedi
Publisher: Vishvavidyalay Prakashan

View full book text
Previous | Next

Page 294
________________ ८४. जननी जन्मभूमिश्च स्वर्गादपि गरीयसी __(१. मातृदेवो भव; २. माता भूमिः पुत्रो अहं पृथिव्याः।) मातुर्महत्त्वम्-अस्मिन् संसारे मातैव सा शक्तिः, या विनय-माधुर्यशीला, ममतामूर्तिः, क्षमाप्रवणा, स्नेहसिक्ता, अनुरागरक्ता, सौम्यगुणसंपृक्ता, अनुरक्ताऽपि विरक्ता, लघ्वी अपि गुर्वी, अबलाऽपि सबला, कठोराऽपि मृद्वी, स्वीय-स्नेहादिगुणैर्भुवं दिवं चाप्यतिशेते । न मातुर्महत्त्वं कथमपि निर्वचनीयं वर्णनीयम् उपमेयं च । सा ह्यनुपमा अपूर्वा दिव्या च शक्तिः । सा ममताया आगारम्, गुणानां निधिः, शीलस्य मूर्तिः, विनयस्याकरः, क्षमायाः खनिः, स्नेहस्य सागरश्चास्ति अभूद् वर्तते वतिष्यते च । सा स्थैर्येण अचलम्, धैर्येण सागरम्, पावनत्वेन पवनम्, माधुर्येण पीयूषम्, क्षमया धरित्रीम्, सत्त्वोद्रेकेण पावकम्, आह्लादनेन चन्द्रमसम्, दीप्त्या भानुं चाप्यतिशेते। को हि शक्तो मातुर्गुणगणगणने । सा नाममात्रेण स्नेहं संचारयति, सद्भावान् आविर्भावयति, दुर्भावान् दमयते, विनयं प्रथयति, शीलं संपोषयति च । . वेदादिषु मातुर्गौरवम्-वेदेषूपनिषत्सु धर्मशास्त्रेषु च मातुर्महत्त्वं गौरवं चानेकधा प्रतिपाद्यते । यजुर्वेदे माता पावयित्री शोधिका च प्रोच्यते । 'आपो अस्मान् मातरः शुन्धयन्तु' ( यजु० ४-२ )। तैत्तिरीयोपनिषदि 'मातृदेवो भव' 'पितृदेवो भव' ( तै० १-११-२) इत्यनुशिष्यते । मनुना मातुर्महत्त्वं निर्दिश्यते यन्माता पितृसहस्रमपि गौरवेणातिरिच्यते। उक्तं च ___ सहस्रं तु पितृन् माता गौरवेणातिरिच्यते ॥ मनु० २-१४५ बालस्य पालन-संवर्धनादिषु यथाविधं क्लेशं पितरौ सहेते, तस्य आनृण्यं वर्षशतैरपि न शक्यम् । अतएव मनुनोच्यते यं मातापितरौ क्लेशं सहेते संभवे नृणाम् ।। न तस्य निष्कृतिः शक्या कर्तुं वर्षशतैरपि ॥ मनु० २-२२७ स्वधैर्य-क्षमादि-गुण-महत्त्वाच्च सा पृथिव्या मूर्तिर्मन्यते । माता पृथिव्या मूर्तिस्तु भ्राता स्वो मूर्तिरात्मनः॥ मनु० २-२२६ मनूक्तदिशा पित्रोणुरोश्च शुश्रूषणं सर्वोत्तमं तपः। तयोनित्यं प्रियं कुर्यादाचार्यस्य च सर्वदा । तेष्वेव त्रिषु तुष्टेषु तपः सर्व समाप्यते ॥ मनु० २-२२८ पित्रादेः शुश्रूषयैव चतुर्विध-फलावाप्तिर्मनुना शस्यते । अभिवादनशीलस्य नित्यं वृद्धोपसेविनः। चत्वारि संप्रवर्धन्ते आयुर्विद्या यशो बलम् ॥ मनु० २-१२१

Loading...

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350