Book Title: Sanskrut Nibandh Shatakam
Author(s): Kapildev Dvivedi
Publisher: Vishvavidyalay Prakashan

View full book text
Previous | Next

Page 301
________________ ८६. चक्रवत् परिवर्तन्ते दुःखानि च सुखानि च (१) कस्यैकान्तं सुखमुपनतं दुःखमेकान्ततो वा; ( २ ) नोचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण; ( ३ ) पतनान्ताः समुच्छ्याः ; (४) चकारपङ्क्तिरिव गच्छति भाग्यपङ्क्तिः । जगतः परिवर्तनशीलत्वम्-निखिलं जगदिदं परिवर्तनशालि । प्रतिक्षणं प्रतिपलं सर्वोऽपि भूतग्रामः स्वात्मनि परिवत्तिमनुभवति । परिवत्तिधर्मत्वमेवास्य भुवनस्य विलोकं विलोकं विपश्चिद्भिः ‘गच्छतीति जगत्' इति निर्वचनमाश्रित्य जगदिति नामधेयं विहितम् । 'संसरति गच्छति चलति वेति संसारः, संसृतिर्वा' इति व्युत्पत्तिनिमित्तकं संसारः संसृतिरिति च नामद्वयं प्रवर्तितं कोविदः । जगत्, संसारः, संसृतिरित्यादयः शब्दाः समुद्घोषयन्ति संसारस्य परिवर्तनशालित्वम् । नेह किञ्चिद्वस्तु शाश्वतं, स्थिरम्, अपरिवर्तनशालि वा । यदा सर्वस्य लोकस्येदृश्यवस्था तदा न संभवति मानवजीवनस्यापरिवृत्तित्वम्, तत्रापि च सुखस्य दुःखस्य वा समावस्थया समवस्थानम् । प्रकृतौ परिवर्तनम-जगति यथर्तवः परिवर्तन्ते, यथा सप्तसप्तिरुदेति, विधुरस्तमेति, निशाकरश्चोदयं याति, प्रभाकरश्चास्तमुगच्छति, यथा रात्रेरनन्तरं दिनं दिवसानन्तरं च विभावरी, तथैव सुखानन्तरं दुःखं, दुःखानन्तरं च सुखम्, सम्पदनन्तरं विपत्, विपदनन्तरं च सम्पदिति । सर्वमेतत् परिवर्तनस्य क्रममात्रम् । एतदेव तथ्यं समीक्ष्य सन्दिशति शाकुन्तले कविकुलगुरुः कालिदास:-'यात्येकतोऽस्तशिखरं पतिरोषधीनाम्, आविष्कृतोऽरुणपुरःसर एकतोऽर्कः । तेजोद्वयस्य युगपद् व्यसनोदयाभ्यां लोको नियम्यत इवात्मदशान्तरेषु ( शाकु० ४।२)। उत्थानं पतनम्, उत्कर्षोऽपकर्षः, जन्म मृत्युः, सम्पत्तिविपत्तिः, सुखं दुःखमिति च परिवृत्तेरवस्थान्तरमेव नान्यत् । यथा शैशवं, तदनु यौवनं, तदनु वार्धकम्, तदनु देहावसानं, तदनु जन्मान्तरं, तदनु पुनः शैशवम् । एवमेव जीवने सुखदुःखे परिवर्तेते। परिवृत्ते रवश्यंभावित्वादनिवार्यत्वाच्च । परिवर्तनस्यावश्यकता-संभवति परिवर्तनेऽस्मिन् केषामप्यापत्तिरनिष्टापत्तिर्वा । परं निपूर्ण विचार्यते तर्हि प्रतीयते परिवृत्तेः सुतरामावश्यकतोपयोगिता च । भुवनेऽस्मिन् नाभविष्यत् परिवर्तनं चेन्नाभविष्यत् प्रगतिरुन्नतिरभ्युदयश्च लोकानाम् । ऋतूनां परिवृत्तिमन्तरेण नाभविष्यत् वसन्तो, ग्रीष्मो वर्षा वा। न चेदभविष्यत् सवष्टि भविष्यत् सुभिक्षम् । नाभविष्यच्चेद् दुःखं नानुभूतमभविष्यत् सुखम् । दुःखस्य सत्तैव सुखमनुभावयति, सुखस्य सत्ता च दुःखम् । यद्येको यावज्जीवं सुखं सम्पत्तिमेवानुभवेदन्यश्च दुःखं विपत्तिमेव वा, तर्हि न प्रसरिष्यति लोकस्थितिः । कर्मणामावश्यकतोपयोगिता चानुभूयते सर्वैरेव । कर्मविपाकोऽपि नियतोऽत: कर्मानुरूपं ।

Loading...

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350