Book Title: Sanskrut Nibandh Shatakam
Author(s): Kapildev Dvivedi
Publisher: Vishvavidyalay Prakashan

View full book text
Previous | Next

Page 302
________________ चक्रवत् परिवर्तन्ते दुःखानि च सुखानि च २८५ कश्चित् स्वकृत- सुकृतपरिपाकरूपेण सुखमधिगच्छति, तद्विपर्ययेण च दुःखम् । सुखदुःखं परिवर्तमानमेतत् सुतरां शिक्षयति निखिलं जगत् सुकृत्यस्य सत्परिणामित्वं, दुष्कृत्यस्य च दुष्परिणामित्वम् । । परिवृत्तेरेतस्या महत्त्वमालोक्यैव महाकविभिर्विविधाः सूक्तयो विषयेऽस्मिन् वणिताः । यथा च - ( क ) अतोऽपि नैकान्तसुखोऽस्ति कश्चिन्नैकान्तदुःखः पुरुषः पृथिव्याम् | ( बुद्धचरितम् ११-४३ ) | ( ख ) भाग्यक्रमेण हि धनानि भवन्ति यान्ति ( मृच्छ० १।१३ ) । - सुखदुःखयोः स्वरूपम् — किं नाम सुखं, किञ्च दुःखमिति । सुखदुःखस्य बहूनि लक्षणानि वर्ण्यन्ते विविधैः शास्त्रकारैः । भगवान् मनुरत्र निर्दिशति यत् सर्वमात्माधीनं सुखम्, आत्मायत्तत्वं वा सुखत्वमिति, परायत्तत्वं च दुःखत्वमिति । तदाह - 'सर्व परवशं दुःखं सर्वमात्मवशं सुखम् । एतद् विद्यात् समासेन लक्षणं सुखदुःखयो:' । केचन चान्ये सुखदुःखयोर्लक्षणं निगदन्ति । सु सुष्ठु सुखकरं वा खेभ्य इन्द्रियेभ्य इति सुखम्, ज्ञानेन्द्रियेभ्यः सुखकरं यत् तत्सुखमिति । एवमेव ज्ञानेन्द्रियेभ्यो दुःखकरं यत् तद् दुःखमिति । मन्मत्या तु लक्षणान्तरमपि शब्दयोरनयोः सम्भवति । सुष्ठु खानि सुखानि, दुष्टानि खानि दुःखानि इति । इन्द्रियाणि चेत् संयतानि तर्हि सर्वमपि विषयजातं सुखत्वमापद्यते । दुष्टानि चेदिन्द्रियाणि तर्हि सर्वोऽपि विषयग्रामो दुःखत्वेनापतति । इत्थं सुखदुःखशब्दद्वयमेवेन्द्रियसंयमस्य महत्त्वमुपदिशति । कस्यैकान्तं सुखमुपनतं दुःखमेकान्ततो वा - सुखवद् दुःखस्यापि जीवने - नल्पं महत्त्वम् । दुःखनिशीथिनीं धृत्योत्तीर्यैव धीराः श्रीकौमुदीमाकाङ्क्षन्ति । अननुभूय दुःखं न सुखं साधूपभुज्यते । अतः साधूच्यते—– सुखं हि दुःखान्यनुभूय शोभते ( मृच्छ० १।१० ), यदेवोपनतं दुःखात् सुखं तद्रसवत्तरम् (विक्रमो०३।२१ ) । समीक्ष्यते चैतत् प्रत्यहं यन्न सुखं सुलभं दुःखानुभूतिमन्तरा प्रत्यवायमन्तरेण च । दुःखमनुभूय प्रत्यूहान् निरस्य च श्रेयः सुलभम् । अत एवाभिधीयते - श्रेयांसि लब्धुमसुखानि विनान्तरायैः ( किराता० ५/४९ ), विघ्नवत्यः प्राथितार्थसिद्धयः ( शाकु० अङ्क ३ ) । चक्रवत् परिवर्तन्ते दुःखानि च सुखानि च -- कर्मविपाकस्य बलीयस्त्वात् समापतति चेद् दुःखं तर्हि किं नु विधेयं वराकेण विपद्ग्रस्तेन । दुःखोदधौ निमग्नेन धैर्यमेवावलम्बनीयम् । धैर्यमाश्रित्यैव धीराः विपत्पारावारमुत्तरन्ति । पारावारे पोतभङ्गेऽपि सांयात्रिको धृतिमवष्टभ्य तितीर्षत्येव । उक्त च - ' त्याज्यं न धैर्यं विधुरेऽपि काले, धैर्यात् कदाचिद् गतिमाप्नुयात् सः । याते समुद्रेऽपि च पोतभङ्गे, सांयात्रिको वाञ्छति तर्तुमेव' । घोरे दुःखेऽपि नर आत्मशक्तिमाश्रयते चेत् स दुःखप्रहाणि कर्तुं प्रभवति । नहि किंचिदसाध्यमात्मशक्त्या । आत्म

Loading...

Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350