Book Title: Sanskrut Nibandh Shatakam
Author(s): Kapildev Dvivedi
Publisher: Vishvavidyalay Prakashan

View full book text
Previous | Next

Page 299
________________ २८२ संस्कृतनिबन्धशतकम् संहतिः श्रेयसी पुंसाम्-संहतेबलेनैव तृणानि रज्जुभावं समासादयन्ति । ततश्च गजेन्द्रोऽपि बध्यते । जल-बिन्दु-समूह एव नदीत्वं सागरत्वं चाप्नोति । रजःकणसमूह एव महापर्वतरूपं धत्ते । तन्तुसमूह एव सुदृढ-पटरूपेण परिणमति । अतएवोच्यते-संहतिः श्रेयसी पुंसाम् । संहतेमहत्त्वं नीतिशास्त्रकारैः प्रतिपाद्यते यद् अल्पानामपि वस्तूनां संहतिः कार्यसाधिका । तृणैर्गुणत्वमापन्नैर्बध्यन्ते मत्तदन्तिनः ॥ हितो० १-३४ । यत्रैवैकताया अभावो विरोधो वैषम्यं च, तत्र कार्यस्यासिद्धिः क्षयो नाशो विनाशो हानिरधोगतिर्वा लक्ष्यते । अतों महाभारते प्रोच्यते न वै भिन्ना जातु चरन्ति धर्म, न वै सुखं प्राप्नुवन्तीह भिन्नाः । न वै भिन्ना गौरवं प्राप्नुवन्ति, न वै भिन्नाः प्रशमं रोचयन्ति ॥ अतएव संबन्धिनो ज्ञातयः सुहृदश्च न विरोध्याः। तुरैरपि परित्यक्तास्तण्डुला न प्ररोहन्ति । उक्तं च संहतिः श्रेयसी पुंसां स्वकुलरल्पकैरपि । तुषेणापि परित्यक्ता न प्ररोहन्ति तण्डुलाः ॥ हितो० १-३५ संघे शक्तिः कलो युगे यदि साम्प्रतं भुवनेऽवलोक्यते चेत् तहि सर्वत्रैव आर्थिक सामाजिके औद्योगिके राष्ट्रिय राजनीतिके शैक्षिके च क्षेत्रे संघस्य महत्त्वं प्रेक्ष्यते । आर्थिकक्षेत्रे श्रमिकाणाम् , व्यवसायिनाम्, शिल्पिनाम्,चर्मकाराणाम, नापितानाम, रिक्शा-चालकानाम्, मोटरचालकानाम्, प्रकाशकानाम्, लेखकानाम्, औद्योगिकानाम्, बैंक-कर्मचारिणाम, मिलश्रमिकाणां च शतशः संघा दृष्टिपथमुपयान्ति । सामाजिकक्षेत्रे छात्राणाम्, लेखकानाम्, साहित्यिकानाम्, कलाकाराणाम्, महिलानां च विविधाः संघाः समीक्ष्यन्ते श्रूयन्ते च । राष्टिरक्षेत्रे विविध-वाद-प्रवर्तकाः संघा दृग्गोचरताम् उपगच्छन्ति, यथा-समाजवादिनाम्, साम्यवादिनाम्, शोषितानाम्, कृषकाणाम, लोकतन्त्रादिवादिनां विविधाः संघाः कस्य न श्रुतिपथमवतरन्ति । एवमेव कांग्रेस-जनसंघ-भारतीय लोकदल-भारतीयक्रान्तिदल-समाजवादि-साम्यवादि-प्रभृतयोऽनेके राजनीतिकसंघाः प्रचरन्ति । नाटो-सीटो-प्रभृतयो देशसंघाः, संयुक्त राष्ट्र-संघश्च विश्वदेशसंघाः प्रावर्तन्त। संयुक्तराष्ट्रसंघो विश्वहितचिकीर्षया विश्वदुःखपरिजिहीर्षया च प्रवर्तितः संघः। लोके एकाकिनो जनस्य बालस्य स्थविरस्य वा न तथा शक्तिसंपुष्टं गौरवास्पदं च वचनम्, यथा तत् सर्वत्राद्रियेत । कार्यसाधनक्षमत्वं संहतो एकतायां

Loading...

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350