Book Title: Sanskrut Nibandh Shatakam
Author(s): Kapildev Dvivedi
Publisher: Vishvavidyalay Prakashan

View full book text
Previous | Next

Page 289
________________ २७२ संस्कृतनिबन्धशतकम् सहस्रमपि वितथं स्यात् । भाग्येऽनुकूले दोषा अपि गुणत्वमायान्ति । उक्तं च'गुणोऽपि दोषतां याति वक्रीभूते विधातरि । सानुकूले पुनस्तस्मिन् दोषोऽपि च गुणायते' । दुःखानि सुखानि च भाग्यानुसारमेव सम्भवन्ति । उच्यते च'भाग्य-क्रमेण हि धनानि भवन्ति यान्ति' । दैवानुसारमेव मनुष्यस्य बुद्धिवृत्तिरपि सम्पद्यते । विधिश्चाघटितघटनापटुर्घटितस्य विघटने च दक्षः । 'अघटितघटितं घटयति, सुघटितघटितानि दुर्घटीकुरुते । विधिरेव तानि घटयति, यानि पुमान् नैव चिन्तयति' । सिद्धिरसिद्धिश्च दिष्ट्यनुरूपमेव परिणमतः । नियतेः कर्मायत्तत्वम् अवितथमेतद्यद् दैवं फलति, सिद्धिश्च दैवाधीना। परन्त्ववगन्तव्यमेतद् यत् पूर्वकृतकर्मपरिपाक एव दैवमिति नान्यत् । यदि सुनिश्चितमेतदवधारितं तर्हि भाग्यमनुकूलयितुं भवतितरामावश्यकता सुविचारितस्य कर्मणः, कठिनस्य श्रमस्य च । अत एवावितथमाह श्रीकृष्णो गीतायाम्-'नियतं कुरु कर्म त्वम्, कर्म ज्यायो ह्यकर्मणः । शरीरयात्रापि च ते न प्रसिध्येदकर्मणः' । कर्म च कर्मफलासक्ति विहायैव कार्यम् । तदेव साफल्यं लम्भयति । 'कर्मण्येवाधिकारस्ते मा फलेषु कदाचन । मा कर्मफलहेतुर्भर्मा ते सङ्गोऽस्त्वकर्मणि' । सत्फलं तपसा श्रमेण सुचरितेन च लभ्यम् । तदेव च परिणमति काले । 'भाग्यानि पूर्वतपसा किल संचितानि, काले फलन्ति पुरुषस्य यथैव वक्षाः' । भाग्याद् गुरुतरं कर्म, तदेव फलति, तदेव चोपास्यम् । 'नमस्तत् कर्मभ्यो विधिरपि न येभ्यः प्रभवति'। शिरसि लिखितं लङ्घति कः-जगति समेषामपि सत्त्वानां नैसर्गिकीयमभिवाञ्छा यत् स्याद् दुःखास्यात्ययः सुखाधिगमश्च । का नु वरीयसी सृतिरिह स्वीकार्या साध्यमेतत् साधयितुम् । शान्तेन स्वान्तेन चिन्त्यते चेत्तर्हि पुरुषार्थमन्तरा न साधनान्तरं दृष्टिपथमुपयाति । धीरा वा, वीरा वा, मनीषिणो वा, वाग्वैभवसम्पन्ना वाग्मिनो वा, कविताकामिनीकान्ताः कविवरा वा, सर्वेऽपि पौरुषमाश्रित्यैवाभीष्टां सिद्धिमधिजग्मुः। अकर्मण्यताऽऽलस्यं पौरुषहीनत्वं दैष्टिकता वाऽत्र प्रत्यवायरूपेणावतिष्ठते । यद्यस्ति हार्दिकी सुखलिप्सा, अभीष्टमात्महितं, चिकीर्षितं परहितं, काङ्कितं कुलहितं, वाञ्छितं विश्वहितं, समीहितं समाजसुखं वा तर्हि आलस्यं नाम रिपुरपनेयश्चेतसोऽपहरणीयाऽकर्मण्यताऽपहस्तयितव्यं चापौरुषत्वम् । पौरुषस्य प्राधान्यम्-उद्यम उद्योगोऽध्यवसायो वा मानवस्यानुपमो बन्धुः, यमवष्टभ्य यदभिलषितं तदधिगम्यते। तथा चोच्यते-'आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः । नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति'। योगवासिष्ठेऽप्यभिधीयते-'पौरुषाद् दृश्यते सिद्धिः पौरुषाद् धीमतां क्रमः' । यावज्जीवं जीवः कर्मनिरतोऽध्यवसायपरश्च स्यात्, कर्मफलासक्तिं च परिहरे

Loading...

Page Navigation
1 ... 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350