Book Title: Sanskrut Nibandh Shatakam
Author(s): Kapildev Dvivedi
Publisher: Vishvavidyalay Prakashan

View full book text
Previous | Next

Page 288
________________ ८२. नालम्बते दैष्टिकतां न निषीदति पौरुषे । शब्दार्थों सत्कविरिव द्वयं विद्वानपेक्षते ॥ ( शिशु० २-८६ ) ( १. दिष्टं पौरुषं च; २. भाग्यवादः पुरुषार्थवादश्च; ३. सर्वकषा भगवती भवितव्यतैव; ४. अनतिक्रमणीयो हि विधिः; ५. यदभावि न तद्भावि; ६. शिरसि लिखितं लङ्घयति कः॥) दिष्टं पौरुषं च-देवस्योद्योगस्य च गुरुलाघवं बलाबलं च निश्चिन्वतां विपश्चितामस्ति गरीयसी विप्रतिपत्तिविषयेऽस्मिन् । केचन दिष्टया देवस्य वा माहात्म्यमुद्घोषयन्ति, ते दैष्टिका इत्यभिधीयन्ते । अन्ये पौरुषस्य महत्त्वमाचक्षाणाः पुरुषार्थमेव सिद्धः सोपानत्वेनाङ्गीकूर्वन्ति । ईदृशे महति विरोधे वर्तमाने केचन मनीषिणो व्योरेव समन्वयं श्रेयस्करमाचक्षते । विचारणीयं तावदेतद् यत् कतमा सरणिरिह साषीयसी, यामवलम्ब्य सकलो छोको भुवनेऽस्मिन् भच्यां भूतिमासाच चिरसश्चितपुण्यपरिपाकसम्प्राप्तस्य मानवजीवनस्यास्य चरितार्थतां संपादयन् ऐहिकमामुष्मिकं चोभयं क्षेममधिगच्छति । भाग्यपुरवायोः स्वरूपम्-विमृश्यते तावद् दिष्ट्या एव बलाबलत्वं प्राक् । का नाम दिष्टिः, कथं च प्रभवत्येषा जीवलोकस्योदयास्तमयस्योत्कर्षापकर्षस्य पातोत्पातस्य वा ? यदि विचारदृशा निपुणं परीक्ष्यते तहि न भूयात् भेदोऽनयोः । प्राक्कृतस्य कर्मण एव नामान्तरं दिष्टिरिति देवमिति भाग्यमिति वा । अतः साधूच्यते-'पूर्वजन्मकृतं कर्म तद्देवमिति कथ्यते' । दिष्टिरेव साधकत्वेन बाधकत्वेन वोपतिष्ठते निखिलेषु क्रियमाणेषु कर्मसु । अतः कर्मणां सिद्धिरसिद्धिर्वा देवाधीनेति व्यवह्रियते । प्राक्कृतकर्मफलपरिपाको नियतोऽतो नियतिरिति च देवस्य नामान्तरं भवति । न च नियतिः साम्प्रतिकैः कर्मभिरन्यथा भवितुमर्हतीति नियतेनियोगोऽधृष्य इति गण्यते। अब दैष्टिका उदाहरन्तिसूर्याचन्द्रमसौ तेजसां वरिष्ठो नियत्यधीनत्वादेवास्तं समुपगच्छतः। वियां पौरुषं चाननुरुध्य लोको दैवातुरूपमेव फलमश्नुते । सुरासुरकृतसमुद्रमन्थने समेऽपि भागे प्राप्तव्ये हरिलक्ष्मी लेभे, हरस्तु हालाहलमेव । उकं च-'देवं फलति सर्वत्र न विद्या न च पौरुषम् । समुद्रमथनाल्लेभे हरिलक्ष्मी हरो विषम्' । अनतिक्रमणीया हि निमतिः-प्रतिकूलतामुपगते हि देवे न मनागपि सिध्यति साध्यम् । अत एवाह माधः-'प्रतिकूलतामुपगते हि विधी विफलत्वमेति बहुसाधनता । अवलम्बनाय दिनभर्तुरभून्न पतिष्यतः करसहस्रमपि' । तादृशं देवस्य प्राबल्यं यज्जनस्य चेतरचेतयते तदेव यद् देवमभिलष्यति । अत एवाह श्रीहर्ष:-'अवश्यभव्येष्वनवग्रहग्रहा यया दिशा धावति वेधसः स्पृहा । तृणेन वात्येव तयाऽनुगम्यते जनस्य चित्तेन भृशावशात्मना'। विरुद्ध हि विधौ श्रम

Loading...

Page Navigation
1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350