Book Title: Sanskrut Nibandh Shatakam
Author(s): Kapildev Dvivedi
Publisher: Vishvavidyalay Prakashan

View full book text
Previous | Next

Page 263
________________ २४६ संस्कृतनिबन्धशतकम् भाषासु मधुरा मुख्या दिव्या गीर्वाणभारती-गीर्वाणगिरो माधुर्य कस्य न सचेतसश्चेत आवर्जयति । कालिदास-माघ-श्रीहर्ष-जयदेवादीनां काव्यानि । प्रतिपदं माधुर्योपेतानि, सङ्गीतात्मकानि, लालित्यवन्ति च सन्ति । देववाण्या माधुर्य-गुणमुग्धा एव सर विलियम जोंस-गेटे-प्रभृतयः पाश्चात्त्या विपश्चितोऽपि तद्गुणानुवादपरा अभूवन् । 'मेघे माघे गतं वयः' 'मधुरकोमलकान्तपदावली शृणु तदा जयदेवसरस्वतीम्' (गीत० ११३ ) इत्यादय आभाणकाः कालिदासमाघ-जयदेवादीनां पदमाधुर्यं मनोज्ञत्वं सहृदयास्वाद्यत्वं च पुष्णन्ति । एतन्माधुर्यापहृतचेतसः शतशः पाश्चात्त्या गीतारामायणादीनां पठने, श्रवणे, अनुवादे च प्रावर्तन्त । भारते तु न केवलं विज्ञा एवापितू रसास्वादप्रवणा ललना अपि संस्कृताध्ययनं व्यदधुः । आकर्ण्यते यद् मण्डनपण्डितभवनविषये पृष्टा नार्यः तमेवमूचुः–'स्वतःप्रमाणं परतःप्रमाणं कीराङ्गना यत्र गिरो गिरन्ति । द्वारस्थनीडान्तरसन्निविष्टा जानीहि तन्मण्डनपण्डितौकः'। संस्कृताध्ययनस्य प्रयोजनानि-संस्कृताध्ययनस्य प्रयोजनानि विचिन्त्यन्ते चेत्तहि सुकरमेतद्वक्तं यत् संस्कृत-भाषैव अध्यात्मज्योतिःप्रदा, आचारशास्त्रशिक्षिका, जीवनोन्नतिकारिणी, ज्ञानाग्निना मोहान्धतमसविनाशिका, सत्पथप्रदर्शिका काचिदनुत्तमा शक्तिः । अध्यात्मदृशा तत्त्वार्थदीपिका, व्यवहारदृशा च वृत्तिसाहाय्यमाचरन्ती, कर्तव्योद्बोधनपरा। अस्य मुख्य प्रयोजनत्वेन एते विशेषा गणयितुं शक्यन्ते--वेदोक्तधर्मज्ञानम्, आर्यसंस्कृतिज्ञानम्, आर्यसभ्यतावैशिष्ट्यज्ञानम्, प्राचीनभारतीयवैभवावगमः, दर्शनतत्त्वावबोधः, कर्तव्याकर्तव्यज्ञानम्, विश्वबन्धुत्वभावोदयः, आस्तिक्यबुद्धिः, विवेचनात्मिका दृष्टिः, विविधभाषासम्पृक्तत्वम्, शीलप्रधानं शिक्षादर्शनम्, प्राचीनपरम्पराज्ञानं चेति । संस्कृतस्य भाषाशास्त्रीयं महत्त्वम्-भारोपीयपरिवारे संस्कृतभाषैव प्राचीनतमा। तन्मलकमेव भाषा-विज्ञानस्य उद्भवः । संस्कृत-ग्रीक-लैटिनभाषाणां तुलनात्मकेनाध्ययनेन भाषाविज्ञानस्य उद्भवः । संस्कृतभाषायामुपलब्धं वाङ्मयं भाषाशास्त्रीयां सर्वामप्यावश्यकतां पूरयति । संस्कृतभाषामूलकमेव तुलनात्मकदेवशास्त्रस्योत्पत्तिः । अतएव मैकडानलमहाभागेनाभिधीयते The discovery of the sanskrit language led to the foundation of the science of comparative philology, an acquaintance with the literature of the Vedas resulted in the foundation of the science of Comparative Mythology. -MACDONELL-H.S.L. P.5. विण्टरनित्स-महोदयोऽपि संस्कृतभाषां भाषाविज्ञानस्य आधारत्वेनोरीकरोति In the earliest ages the Indians already analysed their ancient sacred writings with a view to Philology, classified

Loading...

Page Navigation
1 ... 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350