Book Title: Sanskrit Prachin Stavan Sandoh
Author(s): Vishalvijay
Publisher: Vijaydharmsuri Jain Granthmala

View full book text
Previous | Next

Page 9
________________ प्रस्तावना यद्यपि प्राचीनैः विदुषांवरैः संस्कृतभाषायां विरचितानि बहूनि चैत्यवन्दन-स्तुति-स्तोत्रादीनि मुद्रितानि, अमुद्रितानि च वर्तन्ते, परन्तु संस्कृतभाषानिबद्धानि स्तवनानि नाद्यापि मुद्रितानि मया क्वचिद् विलोकितानि । - 'आबू' नाम्नः सुप्रसिद्धस्य ग्रन्थस्य प्रणेतृभिरितिहासतत्त्ववेदिभिर्मद्गुरुभिः पूज्यपाद-मुनिराज-श्रीजयन्तविजयैरबुदायलसम्बन्धीनि विविधभाषामयानि स्तवन-स्तोत्राणि समन्ततो गवेषयित्वा समुच्चिन्वानरितस्ततो बहव्यो हस्तलिखिताः प्रतय एकत्रीकृताः, तास्वेका पञ्चपत्रीरूपा विशदाक्षरलिखिता प्राचीना प्रतिः उग्रपुर-(आगरा)स्थितस्य श्रीविजयधर्म-लक्ष्मी-ज्ञानमन्दिरस्य सम्बन्धिनी प्राप्ता, यत्र अर्बुदाचलस्तवनेन सह संस्कृतभाषानिबद्धानि अन्यान्यपि बहूनि ललितमधुराणि कानिचित्तु यमकानुप्रासालङ्कारालङ्कृतानि स्तवनानि विलोक्य 'प्रकाशार्हानि इमानि' इत्येवधार्य पूज्यपादैर्गुरुभिस्तत्सम्पादनायादिष्टोऽहं तत्कार्य व्यापृतोऽभवम् । यथाशक्ति सम्पाद्यमानि पाठकप्रवराणां सम्मुखं पुस्तकाकारेणोपस्थापयितुं समर्थः सञ्जात इति प्रमुदितोऽस्मि ।

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58