Book Title: Sanskrit Prachin Stavan Sandoh
Author(s): Vishalvijay
Publisher: Vijaydharmsuri Jain Granthmala
View full book text
________________
१५
अनवद्या महाविद्याः सम्पदो विपदोज्झिताः । सौभाग्यं सह भाग्येन भाक्तिकः संश्रयेत् तव ॥५॥
[३] श्रीशम्भवस्तवनम् ।
श्रीशम्भवजिनाधीशं योगीन्द्रं नौमि सादरम् । जगत्पूज्यं मुदा हेलिमुल्लसन् महसाऽदरम् ॥ १ ॥ निस्तीर्ण रौद्रसंसारदावपावक ! शम्भव ! |
सेनामातः सदा तात ! सद्भावरावश्यम्भव ! ॥ २॥ त्वं जीयाः सर्वदाऽनर्घ्यगुण कल्पद्रनन्दनः । जितारिगण ! लोकेश ! जितारिनृपनन्दनः ॥ ३ ॥ यं नत्वा लेभिरे शैवसम्पदं मक्षु देहिनः । स त्वं सत्त्वं क्षयं कर्तु मोहराजस्य देहि नः ॥ ४ ॥ तत्याज शासनं जातु तावकं पावकं न यः । तं शाश्वत सुखावासं कैवल्यभविकं नय ॥ ५॥
[ ३ ]
१ हेलि = सूर्यम् । महसा मुदा उल्लसन् = महता हर्षेण उल्लसन् । अदरं=अभयम् ।
सेनादेवीतनय | सद्भावर=
२ दावपावक=दावानल | सेनामातः = हे हे सम्यक्प्रभाश्रेष्ठ । अवश्यंभव = हे अपरतन्त्रं=हे स्वतन्त्र ।
३ अनध्यगुणकल्पद्रुनन्दनः = अमूल्यगुणकल्पवृक्षनन्दनवनः
। जिता
रिंगण = हे जितवैरिसमुदाय । जितारिनृपनन्दनः = जितारिराजपुत्रः ।
४ मङ्क्षु शीघ्रम् । सत्त्वं=बलम् ।
५
जातु = कदाचित् । तावकं =तव । पावकं = पुनितम् |

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58