Book Title: Sanskrit Prachin Stavan Sandoh
Author(s): Vishalvijay
Publisher: Vijaydharmsuri Jain Granthmala
View full book text
________________
महनीयचरित्रस्य श्रष्ठस्य परमेष्टिषु । गुणग्रामगरिष्ठस्य किङ्करोऽस्मि तव प्रभो!
[७] श्रीसुपार्श्वस्तवनम् । श्रीसुपार्श्वजिनेन्द्रस्य चन्द्रस्य जगतः स्तुवे । । स्याद्वादिनः क्रमाम्भोजमभवस्य स्वयम्भुवः ॥१॥ न हि कस्य मुदे देव ! भवतो मुखचन्द्रमाः । .. अकलङ्कः सदा सौम्यकान्तिश्रीसदलङ्कृतः ॥२॥ सुधाकुण्डाभयो रम्यनेत्रयोस्तव सौम्ययोः । कमलाकारयोस्तारतारयोर्भद्रमन्वहम् पद्मरागारुणप्रेङ्खन्नखातिविराजितम् । वीक्ष्य ते को मुदं नाऽऽप सल्लक्षणकरद्वयम् ॥४॥ पुण्यलावण्यसम्भारसौभाग्यपद्मद्भुतम् । दृष्ट्वा ते निम्मलं रूपं को न चित्रीयते सुधीः ॥५॥
[८] श्रीचन्द्रप्रभस्तवनम् । श्रीचन्द्रप्रभदेव ! त्वां चन्द्रोज्ज्वलतनुत्विषम् । चन्द्राननमहं स्तौमि चन्द्रलाञ्छनमादरात्
[७] १ क्रमाम्भोज-चरणकमलम् । अभवस्य जन्मरहितस्य । २ सुधाकुण्डाभयोः अमृतकुण्डसदृशयोः । तारतारयोः देदीप्यमान
तारकयोः । ३ चित्रीयते विस्मयते ।।
[८] १ तनुत्विषं=-शरीरकान्तिम् । चन्द्राननं चन्द्रमुखम्

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58