________________
पापदावपयोनाथ ! पापदाव ! रमास्पद !। भवतारण ! को नाऽऽवि भवता रणदुर्गतेः ॥२॥ तारतार ! भवाम्भोधितारतारमया श्रिता। जनता या मदध्वंसेऽज नता याऽमद ! त्वयि ॥३॥ हतमोह ! निरस्ताऽऽरेह तमोह ! कदाचन । मा या मम हृदो विवेऽमायाऽमम ! जिनोत्तम ! ॥४। क्षमादरमिताऽनीते ! क्षमाऽदर तमाश्रयेत् । मा नवस्तवमानन्दाद् मानवस्तव यो व्यधात् ॥५॥ २ हे पाप-दाव-पयोनाथ ! हे पापरूप-दावानलस्य शमने समुद्र
तुल्य !, हे पाप-दाव ! हे पापस्य दहने दावानलसम !, हे रमास्पद-श्रीस्थान !, हे भवतारण ! भवता रण-दुर्गतेः को
(जनः) न आविरक्षितः ? । ३ हे तार-तार ! उच्चैस्तारक !, हे अज अजन्मन् !, हे अ-मद !,
मद-ध्वंसे त्वयि या जनता-जनसमूहः, नता (सा) भवाम्भोधितारता-रमया भवसागर-तारकत्व-श्रिया त्रिता । ४ हे हतमोह ! हे निरस्ताऽऽर !=(अरीणां समूहः आरम् ) अपा
कृतरिपुसमूह ! हे तमोह ! हे अ-माय, हे अ-मम !, हे जिनोत्तम ! इह विश्वे (त्वं) कदाचन मम हृदो-हृदयात् मा याः
न गच्छेः । ५ हे क्षमादरमित !=क्षमया आदरम् इत-गत प्राप्त ! हे अनीते ! । , न सन्ति ईतयो यस्मात् तत्संबुद्धौ हे अनीते !, हे क्षम != , समर्थ ! हे अदर निर्भय ! यो मानव आनन्दात् तव नव__ स्तवं-नवीनं स्तोत्रं व्यधात् तं मा श्रीः आश्रयेत् ।