Book Title: Sanskrit Prachin Stavan Sandoh
Author(s): Vishalvijay
Publisher: Vijaydharmsuri Jain Granthmala

View full book text
Previous | Next

Page 42
________________ भरतैरवतोद्भूताः पञ्च पञ्च जिनोत्तमाः । जयन्तु जगदानन्दकारिणः पापवारिणः ॥२॥ नमतोत्कृष्टकाले श्रीनिदानं वन्द्यमहताम् ।। समस्तक्षेत्रजातानां सप्तत्या सयुतं शतम् ॥३॥ प्रसीदन्तु सदा मह्यं जिनाः! मुक्तिप्रदानतः । किं कल्पपादपाः क्वापि प्राप्ताः प्रयान्ति मोघताम् ॥ ४॥ (१६०) वन्दितं तद्यथा-अस्मिन्--जम्बूद्वीप २ धातकीखण्ड ३ अर्द्धपुष्करावर्त्त—इत्यभिधे सार्द्धद्वयद्वीपे विदेहानां पञ्चकमभिमतं यथा-एको जम्बूद्वीपे द्वीपे, द्वौ धातकीखण्डे द्वीपे, द्वौ च अर्द्धपुष्करावर्त द्वीपे । एकस्मिन् एकस्मिन् विदेहे च द्वात्रिंशद् द्वात्रिंशद् विजयाः महाविजया वा, इति पञ्चविदेहान्तर्गता षष्ट्यधिकमेकशतं (१६०) विजयाः सञ्जाताः । प्रतिविजयं च एक एको जिनेश्वर इति कृत्वा जिनानां षष्ट्यधिकमेकशतमवसेयम् । २ अस्मिन् श्लोके पञ्चभरतक्षेत्रसम्भवाः पञ्च जिनेश्वराः, पञ्च ऐरवतक्षेत्रसम्भवाश्च पञ्च जिनेश्वराः इति जिनानां दशकं नमस्कृतम् । भरतक्षेत्राणां पञ्चकं ऐरवतक्षेत्राणां पञ्चकं च सार्द्धद्वयद्वीपे विदेहानां पञ्चकवदवबोधव्यम् । ३ उत्कृष्टकाले उत्कृष्टत्वेन एककालावच्छेदेन जिनवराणां सप्तत्या संयुतं शतं (१७०) भवति, नातोऽधिकं कदापि सम्भवति । श्रीनिदानं श्रीकारणं श्रीसम्भवम् । ४ कल्पपादपाः कल्पवृक्षाः । मोघतां व्यर्थतां निष्फलताम् ।

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58