Book Title: Sanskrit Prachin Stavan Sandoh
Author(s): Vishalvijay
Publisher: Vijaydharmsuri Jain Granthmala
View full book text
________________
श्लाघ्यौ नरोत्तमावेतौ ययोः पद्मा कलावपि । प्रासादप्रतिमाद्यथ प्रशस्यव्ययमाश्रयत् ॥३॥ युग्मम् ॥ ऋषभाद्या जिनाः सर्वे विरहं निजपादयोः । मम मा ददतामीशाः सेवके कृतवत्सलाः अर्बुदोऽयं नगाधीशो जीयाचिरमिलातले । प्रासादों समैजैनैरभ्रंलिहैः पवित्रितः
[३५] श्रीस्तम्भनजिनस्तवनम् । स्तुवे श्रीस्तम्भनाम्भोजराजहंससमं जिनम् । श्रीपार्श्वमिष्टदं सर्वविघ्नसंघातघातकम् श्रीदश्चिन्तामणिः कल्पपादपः कामदोऽघटः । न दाता त्वत्समो मुक्तिचङ्गथीसङ्गकारक! ॥२॥ न रोगो न च संमोहो न शोको न च साध्वसम् ।। न दुःखं न च दारिद्रयमलं स्थातुं नते त्वयि ॥३॥ तव प्रभावतः स्वामिन् ! कलिकालो विनश्वरः । जज्ञे कृतयुगाश्लेष इव लोकोऽपि वभवात् ॥४॥ ५ इलातले पृथ्वीतले । अभ्रंलिहै: गगनचुम्बिभिः ।
[३५] २ श्रीदः-लक्ष्मीदायकः । अघटः-मर्यादारहितः प्रतिबंधरहितः (घटः मर्यादा) । मुक्तिचङ्गश्रीसङ्गकारक हे मुक्तिरूपसुन्दरश्रीसङ्गकारक (चङ्ग-सुन्दर इति देश्यशब्दः) ३ साध्वसम् भयः । अलं=समर्थम् । ४ कृतयुगा लेषः सत्ययुगसम्बन्धः ।

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58