Book Title: Sanskrit Prachin Stavan Sandoh
Author(s): Vishalvijay
Publisher: Vijaydharmsuri Jain Granthmala

View full book text
Previous | Next

Page 50
________________ ४८ ॥२॥ दातारः शिवसौख्यानां त्रातारो जगतामिनाः । संमेतगिरिशृङ्गाराः पान्तु वो भवतो जिनाः शैलोऽयं शिखरोऽशेषनगानां सपरिच्छदाः । यत्रानशनमादाय जिनेशा लेभिरे शिवम् दूरस्थेनापि येनेदं वन्द्यते भावतोऽनिशम् । तीर्थ शक्रार्चितं तेन प्राप्यते परमं पदम् भावतो वन्दिता भव्यैः सर्वज्ञा अजितादयः । कैवल्यं ददतां सर्वे सर्वदा सर्वदर्शिनः ॥४॥ संस्कृत-प्राचीन-स्तवन-सन्दोहः समाप्तः [३७] २ इनाः-स्वामिनः । वो-युष्मान् । ३ सपरिच्छदाः सपरिवाराः । ४ भावतो श्रद्धापूर्वकम् । शक्रार्चित इन्द्रपूजितम् । टिप्पनिका–पञ्चपत्रात्मकैकहस्तलिखितप्रतित: लिपीकृतानि अस्मिन् पुस्तके च मुद्रितानि सप्तत्रिंशत्संख्यकानि (३७) सर्वाण्यपि स्तवनानि अनुष्टुबवृत्तनिबद्धानि पञ्चश्लोकात्मकानि च वर्तन्ते, अत एतानि एककर्तृकाणि अनुमीयन्ते ।

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58