Book Title: Sanskrit Prachin Stavan Sandoh
Author(s): Vishalvijay
Publisher: Vijaydharmsuri Jain Granthmala
View full book text
________________
जय श्रीस्तम्भनाधीश! श्रीपार्च ! पुरुषोत्तम !। चूरयन्नघसंघातं पूरयन् नरवाञ्छितम्
[३६] श्रीअष्टापदस्तवनम् । अष्टापदनगोत्सान् वृषभादिजिनेश्वरान् । मानवर्णजुषो वन्दे चतुर्विशतिमादरात् . अहो भाग्यमहो पुण्यं तेषामद्भुतमङ्गिनाम् । येषामष्टापदे देवान् नन्तुं शक्तिः पटीयसी ॥२॥ धन्योऽसौ भरतश्चक्री सौवर्ण जिनमन्दिरम् । गिरावष्टापदे येन कारितं प्रतिमान्वितम् इहस्था अपि ये तत्र धृत्वा चित्ते जिनोत्तमान् ।। वन्दन्ते सर्वदा तेषां मुक्तिश्रीर्वशवर्तिनी ॥४॥ एवं भक्त्या स्तुता मां जिनेन्द्रा ऋषभादयः । बोधिलाभं प्रयच्छन्तु संसारे तिष्टते सदा ॥५॥
[३७] श्रीसंमेतजिनस्ततनम् । यस्मिन्नजितनाथादिपान्तिा विंशतिर्जिनाः । सिद्धाः संमेतशलाख्यं तीर्थ तं नौमि भक्तितः ॥१॥
[३६] १ मानवर्णजुषः देहमानदेहवर्णयुक्तान् [अष्टापदे चतुर्विंशतिजिन
वराणां देहप्रमाणयुक्ता देहवर्णवत्यश्च प्रतिमा वर्तन्ते] . २ अङ्गिनाम् जीवानाम् । ५ बोधिलाभं सम्यग्दर्शनम् । तिष्ठते-स्थिताय ।

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58