Book Title: Sanskrit Prachin Stavan Sandoh
Author(s): Vishalvijay
Publisher: Vijaydharmsuri Jain Granthmala
View full book text
________________
कन्दर्पमत्तमातङ्गघातसिंहोपमाय ते । नमोऽस्तु जगदानन्दकारिणेऽधनिवारिणे
॥३॥ त्वं माता त्वं पिता देव! त्वं दाता जगदीश ! मे। भवाम्भोधौ पतन्तं मां पाहि पाहि कृपानिधे! ॥४॥ सृतं देवतया देव ! सृतं मानुषकैः सुखैः । श्रीनेमे ! सतत मेऽस्तु सुलभं तव दशनम् ॥५॥
[३४] श्रीअर्बुदाद्रिस्तवनम् । अर्बुदाद्रौ युगादीशं रिरीमूर्तियुतं स्तुमः । नेमिं च प्रतिमाः सर्वाः प्रासादत्रयसंश्रिताः ॥१॥ धन्योऽसौ विमलो मन्त्री वस्तुपालोऽपि मन्त्रिराट् । यद्धर्मकीर्तने स्थाने इदृशे विषमे गिरौ
इति पदं शुद्ध ज्ञायते, 'पुष्' धातोः सकर्मकत्वात्, 'माम्' इति पदं कर्मद्योतकं भवति ।। ४ ते-तुभ्यम् । अघनिवारिणे पापनिवारिणे । ५ सृतं गतम् (अत्र 'सृतं ' इति पदस्य ' अलं ' 'कृतं' इत्यादि
पदेन सूचितः ‘न मे प्रयोजनं ' इति भावदर्शकोऽर्थो कवीप्सितो ज्ञायते) देवतया देवत्वेन ।
[३४] १ रिरीमूर्तियुत पित्तलमयमूर्तिसहितम् ।
. . २ पद्मा लक्ष्मीः । कलावपि कलियुगेऽपि । . .

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58