Book Title: Sanskrit Prachin Stavan Sandoh
Author(s): Vishalvijay
Publisher: Vijaydharmsuri Jain Granthmala
View full book text
________________
-
४१
मुक्तिश्रीसङ्गमोत्कोऽहं शतं सप्ततिसंयुतम् । रक्ताङ्कतालमेघेशस्वर्णवर्णान् स्तुवेऽर्हतः
[२९] श्रीत्रिकालजिनस्तवनम् । येऽतीता वर्तमाना ये भाविनो ये महोतले । सर्वे श्रीजिनपाः पान्तु माममी भववारिधेः तदीयो गोष्पदीभूयादपारो भवसागरः । वसन्ति मानसे येषां जिना हंसा इवानिशम् ॥२॥ संसारकुहरे पातो भविता न कदाचन । तेषामाहतपादानां ये सदा भक्तिकारिणः ॥३॥ भवनीरधिशोषस्तैरकारि तरसा ध्रुवम् । एकशोऽपि जिना येषां दृष्टिगोचरमाश्रिताः ॥४॥ संसारकूपगे श्वः जना दीप्रनखांशवः । भवन्तु पततो रज्जुवदालम्बनदा मम । ५ मुक्ति-श्री-सङ्गमोत्कः मोक्ष-लक्ष्मी-मीलनोत्सुकः । रक्ताङ्क-ताल
-मेघेश-स्वर्णवर्णान् प्रवाल-हरिताल-मेघ-काञ्चनवर्णान्, रक्तपीत-नील-काञ्चनवर्ण-वत्त्वा-त् जिनेश्वरशरीराणाम् ।
[२९ ] १ जिनपा:-जिनाः । भववारिधेः संसारसमुद्रात् । २ तदीयः तेषाम् । गोष्पदीभूयात्-पल्वलमिवाचरेत् । ३ संसारकुहरे-भवरूपबिले । पातो-पतनम् । . ४ तरसा वेगेन । एकशः एकदा ।। ५ श्वश्रे-नरके । जैना: जिनेश्वरसम्बन्धिन: जिनेश्वराणाम् । दीप्त. नखांशवः दीप्तिमन्तो नखकिरणाः ।

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58