Book Title: Sanskrit Prachin Stavan Sandoh
Author(s): Vishalvijay
Publisher: Vijaydharmsuri Jain Granthmala
View full book text
________________
कान्तारङ्गादहोऽमोह ! कां तार न प्रजामपाः । कान्तारं कस्य चारित्रकान्तारं नाकृथाः प्रियम् ॥४॥ महानन्दप्रदा' भातु महानन्द ! तवाऽश्रिते। महानन्दरमा भूरिमहानन्दसुरागिताम्
[२४] श्रीवीरस्तवनम् । वर्द्धमानजिनेश ! श्रीवर्द्धमान ! न मुक्तये । कामरागसुधीरत्वाऽकामराग! प्रजाऽस्तु ते ॥१॥
४ हे अमोह ! (-'अहो' इत्यव्ययपश्चादकारलोपः यमककाव्ये
क्षन्तव्यः) । कान्ता-रङ्गात्-प्रियास्नेहात् कां प्रजां तारम् उच्चैः न अपाः पासि स्म । हे कान्त ! सुन्दर ! कस्य चारित्रकान्तारं व्रतवनं त्वं प्रियं नाऽकृथाः करोषि स्म ? ॥
५ हे महानन्द ! भूरि-महानन्द-सु-रागितां प्रचुर-उत्सवानन्दानु
राग, आश्रिते जने तव महानन्दरमा मुक्तिश्रीः महानन्दप्रदा प्रकाशसुखदायिका भातु ।
[२४] १ हे वर्धमानजिनेश ! हे श्री-वर्धमान ! [श्रिया वर्धितुं शीलं
यस्य ], हे अ-कामराग-काम-रागवर्जित !, कामराग-सुधीरत्वा ' =कामरागे सुष्ठु धैर्य यस्याः (कामरागपरायणा इत्यर्थः), एतादृशी
ते प्रजा न मुक्तयेऽस्तु ।

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58