Book Title: Sanskrit Prachin Stavan Sandoh
Author(s): Vishalvijay
Publisher: Vijaydharmsuri Jain Granthmala
View full book text
________________
३३
[२२] श्री नेमिस्तवनम् । नेमिनाथ ! त्वया विश्वं निमजद् भवसागरे । अनाथं दुःखितं मत्वाऽऽवि ज्ञातसमवस्तुना ॥१॥ प्रभो ! मदतमोमायालोभकोपभयोज्झितः । मम त्राणाय मोहारेरुदासीनस्त्वमन्वहम् ॥२॥ दृढानामपि निर्मूलोन्मूलनं कर्मशाखिनाम् । लोलयाऽकृत कन्दपंदर्पनाश! जवाद् भवान् ॥३॥ त्वयि यस्तनुते भक्तिं शश्वद् देही शमालय !। भवभीतिहर ! त्रातस्तस्य शस्यसुख विभो! ॥४॥ नाऽऽत मोहं ससार श्रीदायकं जिननायकम् । दुगतिं त्वामरं नत्वा मदनाऽशमवर्जितः
[२२] १ आवि-रक्षितम् । ज्ञातसमवस्तुना ज्ञातसमस्तपदार्थेन । ४ शश्वत्-नित्यम् । त्रातः हे रक्षक । ५ श्रीदायकं जिननायकं त्वां नत्वा, मदनाऽशमवर्जितः काम-क्रोधवर्जितः सन् (मनुष्यः), अरं शीघ्रं मोहं न आत प्राप (अतसातत्यगमने प्रापणे च) न दुर्गतिं ससार जगाम ।

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58