Book Title: Sanskrit Prachin Stavan Sandoh
Author(s): Vishalvijay
Publisher: Vijaydharmsuri Jain Granthmala
View full book text
________________
सुमनाः सुमनास्त्वत्तोऽसमवासमवाप्नुयात् । भासुरा भासुरााहिपद्मतोऽपद्मतोऽमृते सदयं सदयं न त्वा महतामहता रमा । न मता नमता लेभे सकला सकला प्रभो! ॥३॥ तरणे! तरणे! भासा भवतो भवतोयधौ । न यते ! नयतेऽर्चा कोऽमदनाऽमद ! ना पदौ ॥ ४ ॥ वसु धाव सुधाभूतसमताऽसमतासमम् । रणवारणवागस्य सत्वरं सत्त्वरङ्ग मे
॥ ५ ॥ २ भासुरा सुमनाः पुष्पं भासुराच्याहिपद्मतः वीरार्चनीयचरणकमलात् त्वत्तः ( सकाशात् ) सुमनाः देवता सती. अपद्मतः श्रीरहितस्थानात्, अमृते (स्थाने) असम-वासं-अतुल्यवासं, अवाप्नुयात् । [ तव पूजनाय तव चरणे समर्पितं पुष्पमपि सुगतिं प्राप्नोति,
इति भावः ] ३ स-दयं दयायुक्तं, सद्अयं-सन् अयः शुभप्राक्तनकम यस्य तं, त्वा त्वां नमता जनेन । महतां मता-महद्भिर्ज्ञाता, अहता-अप्रतिबद्धा, सकला-संपूर्णा, स-कला-कलायुक्ता रमा न
न लेभे=अपि तु लेभे एव-प्राप्तैव । ४ हे भव-तोयधौ-संसार-सागरे, तरणे ! नौके !, हे भासा तरणे !=
तेजसा सूर्य !, हे यते !-मुने, हे अमदन ! हे कामरहित !, हे अमद !-मद-रहित ! को ना-जनः, भवतः तव पदौ-पादौ
अर्चा-पूजां न नयते? ५ हे सुधाभूतसमत! अमृततुल्या समता-साम्यं यस्य तस्य सम्बुद्धौ,
हे रणवारण-वाग ! युद्धविनाशकवचन !, हे सत्त्व-रङ्ग ! अस्य

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58