Book Title: Sanskrit Prachin Stavan Sandoh
Author(s): Vishalvijay
Publisher: Vijaydharmsuri Jain Granthmala

View full book text
Previous | Next

Page 36
________________ ३४ [ २३ ] श्रीपार्श्वस्तवनम् । पाश्वेन नाऽऽवि को यक्षपार्श्वेन नतविघ्नतः । पार्श्वेन भीवने रम्यपार्श्वेनाऽभात् त्वया जगत् ॥ १ ॥ वामेय ! शिवपूर्मार्गे वामे यस्त्वयि संनतः । वामेय ! तं नरं सद्योऽवामेयगुण ! विघ्नतः ॥ २ ॥ भावतस्तव यो ज्ञातभाव ! तत्त्वरत ! क्रमौ । भावतः स्तौति तं रक्षाऽभावतस्तापतः क्षणात् ॥ ३ ॥ [ २३ ] १ यक्षपार्श्वेन पार्श्वेन = पार्श्वप्रभुणा भीवने - भयकान्तारे पार्श्वेन - पशुसमूहतुल्येन नतविघ्नतः = उपस्थितविघ्नेभ्यः को नाऽऽवि=न रक्षितः ? रम्यं पार्श्व पार्श्वास्थि यस्य तेन त्वया जगत् अभात् = प्रकाशते स्म । २ हे वामेय ! =वामासूनो !, वामे = प्रतिकूले शिवपूर्मार्गे मुक्तिनगरीवर्त्मनि यः त्वयि संनतः, हे वैः = कल्याणैः (व शब्दः कल्याणवाची कोशे) अमेय = मातुमशक्य !, हे अमेयगुण तं नरं सद्यो विघ्नतः अव= रक्ष | ३ हे ज्ञात-भाव, हे तत्त्व - रत ! भा-वतः = दीप्तिमतः तव क्रमौ= चरणौ यो भावत = श्रद्धया स्तौति तं अभावतः = ज्ञानादीनां योऽभावस्तस्मात्, तापतश्च क्षणाद् रक्ष

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58