Book Title: Sanskrit Prachin Stavan Sandoh
Author(s): Vishalvijay
Publisher: Vijaydharmsuri Jain Granthmala
View full book text
________________
२२
तीर्थङ्कराय देवाय शम्भवे विभवे भवे ।। अर्हतेऽनिशमाप्ताय नमः श्रीपरमेष्ठिने
॥५॥ [११] श्रीश्रेयांसस्तवनम् । श्रेयांसः श्रेयसां धाम श्रेयसेऽस्तु सदा सताम् । यन्नामध्यानतो मां लभन्ते श्रेयसीं श्रियम् ॥१॥ श्रेयांसि श्रेयसो नाम निरस्ताश्रेयसो मुदा । ध्यायन्तो मन्त्रवत् प्राज्ञा लेभिरे भक्तिशालिनः ॥२॥ अगण्यपुण्यपण्यानामापणो जगदुत्तमम् । एष एव प्रमोदेन श्रेयांसं नौति यो मुदा ॥३॥ नूनं शिरोमणीयन्ते ते नरा महतामपि ! श्रेयांसे विद्यते भक्तियषां मनसि शाश्वती ॥४॥ तं मानवशिरोरत्नं वन्दन्ते त्रिदशा अपि । यः श्रेयांसवचो वन्द्यं लङ्घते न कदाचन ॥५॥
[१२] श्रीवासुपूज्यस्तवनम् ।। वासुपूज्यप्रभो ! सर्वजन्तुजातकृपापरः । त्वत्तो नान्योऽस्ति देवो हि मुक्तिदाता जगत्त्रये ॥१॥ ५ शम्भवे-जिनेश्वराय । विभवे-स्वामिने । अनिशं सदा ।
[११ ] २ श्रेयसः=श्रेयांसजिनेश्वरस्य । निरस्ताश्रेयसः-दूरीकृतामङ्गलस्य । ३ आपण:=पण्यशाला । जगदुत्तमम् जगच्छ्रेष्ठम् । ५ त्रिदशाः देवाः ।
[१२] • १ सर्वजन्तुजातकृपापरः-सकलप्राणिसमूहदयालुः ।

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58