Book Title: Sanskrit Prachin Stavan Sandoh
Author(s): Vishalvijay
Publisher: Vijaydharmsuri Jain Granthmala
View full book text
________________
नास्तीह त्वत्समो दाता नास्ति रोरोऽपि मत्समः । अतो मे याचितं देहि देहिव्यूहहितः शिवम् ॥२॥ त्रैलोक्यदुःस्थितोद्धारे त्वमेव कृतसङ्गरः । मत्तुल्यो दुःस्थितो नातो मामुद्धर कृपापर! ॥३॥ भीतत्राणे महान्तो हि तत्परास्तेषु सत्तरः । त्वमेकोऽसि ततो भीतं पाहि मां मोहभूपतेः ॥४॥ आत्मतुल्यमुदारेशाः कुर्वन्ति निजसेवकम् । त्वं सीमा तेषु भृत्योऽहं तवेति जिन ! चिन्तय ॥५॥
[१६] श्रीशान्तिस्तवनम् । शान्तिनाथं जिनं भक्त्या सुरासुरनराचिंतम् । स्तुवे शान्तिकरं शान्तिमन्दिरं मन्दधीरहम् ॥ १॥ शिवश्रीसङ्गदातार हन्तारं जगदापदाम् । भवन्तं को न वन्देत वीतराग ! सचेतनः ॥२॥
[ १५ ] २ रोरः='दरिद्रः' इत्यर्थोऽभिप्रेतो ज्ञायते । देहिव्यूहहितः प्राणिसमू
हः हितः । ३ कृतसङ्गरः कृतप्रतिज्ञः । मत्तुल्यः मम सदृशः । ४ 'भीतत्राणे महान्तो हि तत्पराः' इति लोकोक्तिवाक्यम् ।
सत्तरः-महत्तरः श्रेष्ठः । ५ तेषु त्वं सीमा तेषु-ईशेषु त्वं श्रेष्ठः ।

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58