Book Title: Sanskrit Prachin Stavan Sandoh
Author(s): Vishalvijay
Publisher: Vijaydharmsuri Jain Granthmala

View full book text
Previous | Next

Page 29
________________ सुधापानं मरौ देशे यथा पुंसोऽतिदुर्लभम् । तथैवाकृतपुण्यस्य दुर्लभो मृगलाञ्छनः । ॥३॥ प्राप्यापि जिन ! निर्दोषं दुष्प्रापं तव शासनम् । प्रमादं कुवते येऽत्र हा तेषामतिमूढता ॥४॥ श्रीशान्ते ! भवतः पाश्वे न याचे शक्रसम्पदम् । वाञ्छामि भवदाज्ञायाः पालनं तु भवे भवे - [१७] श्रीकुन्थुनाथस्तवनम् । कुन्थुनाथ ! जगन्नाथ! सर्वथाऽपाकृथा यथा । मोहमलं तथोपायं कृपया मम दर्शय । त्रिलोकीगञ्जनं वीरं यया शक्त्याऽवधीः स्मरम् । प्रसद्य सत्वरं यच्छ तजये मम तां प्रभो! ॥२॥ चूर्णीकृतानि कर्माणि भवता येन लीलया । तद्धयानं कृपया नाथ! ममापि वितराधुना [१६] ३ मृगलाञ्छनः श्रीशान्तिजिनः, तस्य मृगलाञ्छनत्वात् । ५ पार्श्वे समीपे । शक्रसम्पदं–इन्द्रवैभवम् । [१७] १ अपाकृथाः दूरीकृतवान् । २ त्रिलोकीगञ्जनं लोकत्रयपराभवकारकम् । स्मरम्-कामदेवम् । ३ येन येन ध्यानेन । लोलया-क्रीडामात्रेण ।

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58