Book Title: Sanskrit Prachin Stavan Sandoh
Author(s): Vishalvijay
Publisher: Vijaydharmsuri Jain Granthmala

View full book text
Previous | Next

Page 30
________________ २८ शिवश्रीकण्ठशृङ्गारहारतां भगवन्नगाः । यया समतया मे तां कृपां कृत्वा सुलम्भय ॥४॥ यत्सुखं त्वं शिवाऽऽवासे स्वामिन्ननुभवन्नसि । तस्य मे निजभृत्यस्य संविभागं कुरु प्रभो! ॥५। [१८] श्रीअरस्तवनम् । अरनाथ! सदा कुर्यात् तवाऽज्ञोल्लङ्घनं न यः । शीर्षेऽशेषेव तस्याज्ञा मरुताऽपि विधीयते ॥१॥ त्वदाशारहितो देही न सुखं न च सम्पदः । म यशो न च नाकित्वं नापवर्ग समाश्रयेत् ॥२॥ तीर्थसेवा क्षमा ध्यानं दमो दानं दया तपः । सर्व तवाशया हीनं मुक्तये सर्वथा न हि कारारूपनिगोदेषु सततं भवदाशया । घर्जितो दुःखितो दीनोऽनन्तकालं स्थितोऽस्म्यहम् ॥४॥ मयेह भ्रमताऽवापि त्वदाऽऽज्ञा कर्मलाघवात् । तथा कुरु यथा नाथ! स्यात् तस्याः खण्डनं न मे ॥५॥ - - - [१८] १ अशेषेव अशेषा इव-सम्पूर्णा इव । २ देही प्राणी । नाकित्वं देवत्वं । ४ कारारूपनिगोदेषु कारागृहसमनिगोदेषु । ५ अवापि-प्राप्ता । कमलाघवात्-कर्माल्पत्वेन ।

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58