Book Title: Sanskrit Prachin Stavan Sandoh
Author(s): Vishalvijay
Publisher: Vijaydharmsuri Jain Granthmala

View full book text
Previous | Next

Page 27
________________ २५ अरिष्टनरकच्छेदी श्रीपतिः पुरुषोत्तमः । चित्रं विष्णुरिवासि त्वमगदो न जनार्दन: ॥३॥ सर्वज्ञो मदनद्वेषी शम्भुरीशो महाव्रती । शङ्करोऽस्ति तदाश्चर्यं नेतर्यदभवो भवान् ॥४॥ ब्रह्मरूपस्त्वमेवासि शङ्करः पुरुषोत्तमः । इति देवत्रयीरूपस्त्वमेव भवने मतः [१५] श्रीधर्मनाथस्तवनम् । धर्मनाथ ! कृपां कुर्याः पततीह भवे मयि । यस्मात् त्वत्सदृशो नान्यः करुणारससागरः ॥१॥ ३ अस्मिन् श्लोके विष्णुमधिकृत्य श्लेषोऽस्ति । विष्णुपक्षे-अरिष्टहा, नरकारिः, श्रीपतिः लक्ष्मीपतिः, पुरुषोत्तमः, जनादनः, गदाभृत्, इति नामभिः विष्णुः प्रसिद्धः । श्रीअनन्तजिनपक्षे-श्रीअनन्तजिनः अरिष्टनरकच्छेदी-उपसर्गस्य नरकस्य च छेत्ता, श्रीपतिःतीर्थकरत्वलक्ष्मीस्वामी, पुरुषोत्तमः समग्रपुरुषवर्गश्रेष्ठः । एतैर्विष्णुसदृशेर्विशेषगैर्युक्तोऽपि त्वं अगदः-गदारहितः, जनार्दनः= जनदुःखकारकश्च न इति चित्रम् । ४ अस्मिन् श्लोके महेशमधिकृत्य श्लेषो वर्तते । महेशपक्षे-सर्वज्ञः, मदनद्वेषी, शम्भुः, ईशः, महाव्रती, शङ्करः, भवः इति महेशनामानि । श्री अनन्तजिनपक्षे-श्रीअनन्तजिनः सर्वज्ञः, मदनद्वेषी कामदेवद्वेष्टा, शम्भुः-सुखास्पद, महाव्रती=महाव्रतधारकः, शङ्करः शान्तिकारकः । नेतः हे नायक, एतैर्महेशसदृशविशेषणेविशिष्टोऽपि भवान् युद्ध अभसामररि लमुनआश्चयम् । Pारसर

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58