Book Title: Sanskrit Prachin Stavan Sandoh
Author(s): Vishalvijay
Publisher: Vijaydharmsuri Jain Granthmala
View full book text
________________
आराधयेजिनेश ! त्वां यो विमुच्य कुदैवतम् । करीरं सेवते मूढः सोऽपास्य सुखशाखिनम् ॥२॥ कथं श्रीर्वद्धते तेषां गेहे श्रेयो भवेत् किमु ?। येषां त्वदर्चने नाथ! नाऽऽदरः सर्वथा नृणाम् ॥३॥ देवयोर्नान्तरं येषां स्वान्ते नीरागरागिणोः । किं ते जडा न मन्यन्ते तुल्यत्वं मणिकाचयोः ॥४॥ देवो विश्वे त्वमेवेति जानन्तोऽपि जना जिन !। यद् ध्यायन्ति कुदेवं तन्मिथ्यात्वं बलवत्तरम् ॥५॥
[१३] श्रीविमलस्तवनम् । विमलो जगतीनाथः सततं विमलाजिनः । निर्मदो निर्ममो जीयान्निर्दोषो निर्गतामयः ॥१॥ स्वामिन् ! निर्दोह ! निर्मोह ! निर्लोभ ! गतमत्सर!। जय निःसङ्ग ! निर्माय ! निरीह ! हततामस! ॥२॥ हतदुष्कर्मसङ्घात ! हतपातकसञ्चय ! । हतसंसारसन्ताप ! हतमन्मथ ! पाहि नः
२ करीरं-वृक्षविशेषं 'कणेर' इतिभाषायाम् । अपास्य त्यक्त्वा । ४ स्वान्ते-हृदये । नीरागरागिणोः चीतरागसरागयोः ।
[१३] १ विमलाजिनः निर्मलत्वक् [ अजिनः त्वक् ] । ३ हतमन्मथ-हतकामदेव । नः अस्मान् ।

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58