Book Title: Sanskrit Prachin Stavan Sandoh
Author(s): Vishalvijay
Publisher: Vijaydharmsuri Jain Granthmala

View full book text
Previous | Next

Page 23
________________ प्रदत्ते सुगतेर्युग्मं युगं हन्ति च दुर्गतेः । भव्यानां पालितं यत् ते दर्शनं तदहं श्रये ॥४॥ चारित्रेण पवित्रेण करनकक्ष व्यधाः । त्वं येन तरसा देहि तन्ममापि तमोपहम् ॥५॥ [१०] श्रीशीतलस्तवनम् । श्रीशीतल ! जिनाधीश ! सर्वज्ञ! परमेश्वर ! । भगवन् ! सुचिरं नन्द योगीश्वर ! महामुने! ॥१॥ देवाधिदेव ! तीर्थेश ! पुरुषोतम शङ्करः । जय पारगतः स्वामिन् ! केवलज्ञानसत्तमः वीतराग ! महादेव ! स्वयंभूर्मुनिनायक ! । सवीर्यः सर्वदा सार्वः त्रायस्व त्वं त्रिकालवित् ॥३॥ जिनं क्षीणाष्टकर्माणमभयप्रदमुत्तमम् । स्याद्वादवादिनं सर्वदर्शिनं बोधिदं नुमः ॥४॥ ४ सुगतेयुग्मं सुगतिद्वयं =देवगतिर्ननुष्यगतिश्च सुगतिद्वयं मतम् ] । दुर्गतेयुगः दुर्गतिद्वयं [-नारकगतिस्तिय॑ञ्चगतिश्च दुर्गतिद्वयमवसेयम् ] । ५ कृत्स्नकर्मक्षय-समग्रकर्मनाशम् । तरसा वेगेन । [१०] २ केवलज्ञानसत्तमः केवलज्ञानेन श्रेष्टः । ३ सार्वः सर्वज्ञः । त्रिकालवित्-त्रिकालज्ञाता ।

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58