________________
सुधापानं मरौ देशे यथा पुंसोऽतिदुर्लभम् । तथैवाकृतपुण्यस्य दुर्लभो मृगलाञ्छनः । ॥३॥ प्राप्यापि जिन ! निर्दोषं दुष्प्रापं तव शासनम् । प्रमादं कुवते येऽत्र हा तेषामतिमूढता ॥४॥ श्रीशान्ते ! भवतः पाश्वे न याचे शक्रसम्पदम् । वाञ्छामि भवदाज्ञायाः पालनं तु भवे भवे
- [१७] श्रीकुन्थुनाथस्तवनम् । कुन्थुनाथ ! जगन्नाथ! सर्वथाऽपाकृथा यथा । मोहमलं तथोपायं कृपया मम दर्शय । त्रिलोकीगञ्जनं वीरं यया शक्त्याऽवधीः स्मरम् । प्रसद्य सत्वरं यच्छ तजये मम तां प्रभो! ॥२॥ चूर्णीकृतानि कर्माणि भवता येन लीलया । तद्धयानं कृपया नाथ! ममापि वितराधुना
[१६] ३ मृगलाञ्छनः श्रीशान्तिजिनः, तस्य मृगलाञ्छनत्वात् । ५ पार्श्वे समीपे । शक्रसम्पदं–इन्द्रवैभवम् ।
[१७] १ अपाकृथाः दूरीकृतवान् । २ त्रिलोकीगञ्जनं लोकत्रयपराभवकारकम् । स्मरम्-कामदेवम् । ३ येन येन ध्यानेन । लोलया-क्रीडामात्रेण ।