Book Title: Sanskrit Prachin Stavan Sandoh
Author(s): Vishalvijay
Publisher: Vijaydharmsuri Jain Granthmala
View full book text
________________
१४
नरमा नरमानद्रुप्रभञ्जनप्रभञ्जन ! ।
जनताऽज ! नता लेभेऽदर्पकाऽदर्पका त्वयि ॥ ४ ॥ यस्त्वाऽभीमारि भीमारिप्रमद ! प्रमदप्रद ! |
नमतीन ! मतीरेष सदयाः सदयाः श्रयेत् ॥ ५ ॥ [२] श्री अजितस्तवनम् ।
श्रीमन्तमजितं देवं कषायैरजितं सदा । त्रैलोक्यवन्दितं देवं घोरसंसारपारगम् ॥ १ ॥ अद्य प्राप्ताः श्रियः सर्वा मया तीपर्णो भवार्णवः । जीवितं सफलं मेने यत् त्वं दृष्टोऽतिदुर्लभः ॥२॥ पवित्रा रजनी सैव प्रशस्यो दिवसोऽपि च । स एव जगतीनाथ ! यत्र स्यात् तव दर्शनम् ॥३॥ त्वं मरौ कल्पशाखीव जाङ्गले गाङ्गपुरवत् । सुपर्वमणिवन्नैस्स्वे दुर्लभोऽसि प्रभो !
भवे ४ नरमाः =परमात्मश्रीः । नरमानद्रुप्रभञ्जनप्रभञ्जन = हे द्रुमोन्मूलनवात ! अज = हे जन्मरहित | अदर्पक हे अदर्पका=गताहङ्कारा ।
५ त्वा = त्वां । अभीमारि - भी - मारि - प्रमद - हे गतभीषणवैरिभयमारिप्रकृष्टगर्व । प्रमदप्रद = हे आनन्दद । इन = हे प्रभो । सदयाःदयासहिताः । सद्-अयाः = प्रशस्त प्राक्तन कर्मणः । [ २ ]
१ अजितं=अजितनाथम् । अजितं अपराभूतम् । ४ मरौ=मरुस्थले ।
॥४॥
मर्त्यगव -
वीतकाम ।
कल्पशाखी=कल्पवृक्षः । जाङ्गले = अटव्याम् । गाङ्गपुस्त्रत्–गङ्गाप्रवाहवत् । सुपर्वमणिवत् देवमणिवत् = चिन्तामणिवत् । नैस्स्वे=निर्धनत्वे ।

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58