Book Title: Sanskrit Prachin Stavan Sandoh
Author(s): Vishalvijay
Publisher: Vijaydharmsuri Jain Granthmala
View full book text
________________
[४] श्रीअभिनन्दनस्तवनम् । सोऽभिनन्दननाथ ! त्वं विजयस्व दयाऽमदः । यस्य ते हृद्यमेयाऽस्था द् विजयस्वदयाऽमदः ॥१॥ जनताऽऽपन्नदीतारतरणे! भवतारण ! । मोहारेरावि कान्त्याऽस्ततरणे ! भवता रणः ॥२॥ श्रीस्ते न हि मुदे कस्य प्रभो ! विश्वाभिनन्दन !। रक्ष मां भवतो भास्वत्प्रभो विश्वाभिनन्दनः ॥३॥ पाहि ताः शोषिताघौघ ! नीरागततमायाः। त्वं प्रजा न हि तत्याज नीरागततमादया ॥४॥
[४] १ अमदः रोगनाशकः ( अम-रोगं दाति=छिनत्ति )। अमेया= प्रमाणरहिता-पुष्कला । विजयस्वदय हे विजयधनदायक। अ
मदः मदरहितः। २ जनताऽऽपन्नदीतारतरणे हे लोकविपत्तिनदीतरणनौकातुल्य [तरणिः-नौका] । आवि=जितः। कान्त्याऽस्ततरणे हे प्रभया पराभूतसूर्य [ तरणिः सूर्यः]। रणः संग्रामः । (आवि=अव् धातोः कर्मणि रूपम् ) । अनुप्रासे विसर्गानुस्वारादयो न बाधकाः। अत उत्तरार्धे विसर्ग आवश्यकः । ३ मुदे-हर्षाय । विश्वाभिनन्दन हे जगदानन्ददायक। भास्वत्प्रभः=
देदीप्यमानकान्तियुतः। ४ शोषिताघौघ=हे शोषितपापसमुदाय । नीरागततमादयाः रागभा
वेन विस्तृतश्रीदयाः। नीरागततं-रागरहित्वेन विस्तृतम् (त्वाम् )। आदया ग्रहणेन [आदान आदा] ।

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58