________________
संबोह पंचासिया मृत्यु की अवश्यंभाविता इकखइ सुरलंबो रखइ सिइ विगहमहणौ । तो वि ण छूटइ जीवो पायंगो जहवि दीवम्मि ||२०||
अन्वयार्थ:
(ज) यदि इस जीव की (सुरसंधी) देवसमूह ( तियसवह) ब्रह्म और विष्णु (विमहमहणी) चन्द्र और सूर्य (रखखइ) रक्षा करे (तो वि) फिर भी (जीवो) जीव (मृत्यु से) (ण छूटइ) बच नहीं सकता भले ही वह (दीवम्मि) दीपान्तरों में (जहवि) जाये तो भी वह मृत्यु को (पायंगी ) प्राप्त करेगा । संस्कृत टीका :
हे जीव ! अत्र संसारे कालभयवशात् यदि जीवं सुरसमूहोऽपि रक्षति, सुरेन्द्रोऽपि रक्षति, ब्रह्म नारायणावपि रक्षतः, पुनः चन्द्रः सूर्यः रक्षति, पुनः यदि चण्डिका क्षेत्रपाल कुलदेव्यः रक्षन्ति, पुनः स्वजन परिवारः रक्षति, पुनः श्वसुरपक्षी यदि रक्षति, पुनः अन्यः कोऽपि रक्षति तर्हि एते सर्वे स्वकार्यं कालमुखात् किं न रक्षन्ति ? तस्मात्कारणादिमं जीवं कालभयवशात् न कोऽपि रक्षति । पुनः कदाचिदयं जीवः कालभयवशादसंख्य दीपान्तरे गच्छति, तर्हि न कोऽपि रक्षति । उक्तध -
तथा च
पुत्रा दारा नराणां स्वजनकुलजना बन्धुवर्गाः प्रिया वा माता भ्राता पिता वा स्वसुरकुलजना भव्यभोगाभियुक्ताः । विद्यारूपं क्षमाढ्यं बहुगुणनिलयं यौवनेनात्तदर्पं सर्वे ते मृत्युकाले जहति हि पुरुषं धर्म एकः सहायः ॥
आदित्यस्य गतागतैरहरहं संक्षीयते जीवितम् । व्यापारैर्बहुकर्म भारनिरतैः कालोऽपि न ज्ञायते । दृष्ट्वा जन्मजरापरीतमरणं त्रासोऽपि नोत्पद्यते । पीत्वा मोहमयीं प्रमादमदिरामुन्मत्तभूतं जगत् ॥
24