Book Title: Pragnapanopangamsutram Part 02
Author(s): Malaygiri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 422
________________ rceaelae प्रज्ञापना या मलयवृत्ती. ३६ समुद्घातपदं समुद्धातानामल्पब| हुत्वं सू. ३३७-३३८ ॥५८०॥ eeeeeeeeeeee यावत स्तनितकुमाराणामिति । सम्प्रति पृथिवीकायिकगतमल्पबहुत्वमाह-'एएसि ण'मित्यादि, अत्र कषायसमुदघातसमुद्धतानां वेदनासमुद्घातसमुद्धतानां च सङ्ख्येयगुणत्वे असमवहतानां चासमवेयगुणत्वे भावना खयं भावनीया, सुगमत्वात् , 'एव'मित्यादि, पृथिवीकायिकगतेन प्रकारेणाल्पबहुत्वं तावद्वक्तव्यं यावद्वनस्पतिकायिकाः. | वायुकायिकान् प्रति विशेषमभिधित्सुराह-'नवर'मित्यादि, नवरं वातकायिकानामल्पबहुत्वचिन्तायामेवं वक्तव्यंसर्वस्तोका वातकायिका वैक्रियसमुद्घातेन समुद्धताः, बादरपर्याप्तसङ्ख्येयभागस्य वैक्रियलब्धेः सम्भवात् , तेभ्योऽपि मारणान्तिकसमुद्घातेन समुद्धता असङ्ख्येयगुणाः, पर्याप्तापर्याप्तसूक्ष्मबादरभेदभिन्नानां सर्वेषामपि वातकायिकानां मरणसमुदघातसम्भवात् , तेभ्योऽपि कषायसमुद्घातेन समुद्धताः सङ्ख्ययगुणाः, तेभ्योऽपि वेदनासमुद्घातेन समुद्धता विशेषाधिकाः, तेभ्योऽसमवहता असङ्ख्येयगुणाः, सकलसमुद्घातगतवातकायिकापेक्षया खभावस्थानां वातकायिकानां खभावत एवासङ्ख्येयगुणतया प्राप्यमाणत्वात् । द्वीन्द्रियसूत्रे सर्वस्तोकाः द्वीन्द्रिया मारणान्तिकसमुद्घातेन समुद्धताः, प्रतिनियतानामेव प्रश्नसमये मरणसद्भावात् , तेभ्यो वेदनासमुद्घातेन समुद्धता असङ्ख्येयगुणाः, शीतातपादिसम्पर्कतोऽतिप्रभूतानां वेदनासमुद्घातभावात् , तेभ्यः कषायसमुद्घातेन समुद्धता असङ्ख्येयगुणाः, अतिप्रभूततराणां लोभादिकषायसमुद्घातभावात् , तेभ्योऽप्यसमवहताः सङ्ख्येयगुणाः, 'एव'मित्यादि, एवं द्वीन्द्रियगतेन प्रकारेण तावद् वक्तव्यं यावचतुरिन्द्रियाः। तिर्यपञ्चेन्द्रियसूत्रे सर्वस्तोकास्तैजससमुद्घातेन समुद्धताः, कतिपयाना Coeroeceivedeoesesesea ॥५८०॥ Jain Education Laura For Personal & Private Use Only anelibrary.org

Loading...

Page Navigation
1 ... 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484