Book Title: Pragnapanopangamsutram Part 02
Author(s): Malaygiri,
Publisher: Agamoday Samiti
View full book text
________________
इया वेमाणियपजवसाणेसु भणिया तहा णागकुमारादिया सहाणपरहाणेसु भणियचा जाब वेमाणियत्ते' इति. अस्यार्थः-कियन्तो भदन्त ! एकैकस्य नारकस्यासंसारमोक्षमनन्तं कालं मर्यादीकृत्य नैरयिकत्वे भाविनः सतः सर्वसङ्ख्यया पुरस्कृताः क्रोधसमुद्घाताः ?, भगवानाह-'कस्सइ अत्थि' इत्यादि,य आसन्नमरणः क्रोधसमुद्रातमनासाद्यात्यन्तिकमरणेन नरकादुद्वृत्तः सेत्स्यति तस्य नास्ति नैरयिकत्वभाविन एकोऽपि पुरस्कृतः क्रोधसमुद्रातः, शेषस्य तु सन्ति, यस्यापि सन्ति तस्यापि जघन्यत एको द्वौ त्रयो वा, एतच्च क्षीणशेषायुषां तद्भवस्थानां भूयो नरकेषु उ(प्वनु)त्पद्यमानानां वेदितव्यं, भूयो नरकेपुत्पत्तौ हि जघन्यपदेऽपि सङ्ख्येयाः प्राप्यन्ते, नैरयिकाणां क्रोधसमुद्घातप्रचुरत्वात् , उत्कर्षतः सङ्ख्येया वा असङ्ख्येया वा अनन्ता वा, तत्र सकृन्नरकेषु जघन्यस्थितिकेषुत्पत्स्यमानस्य सङ्ख्यया अनेकशो यदिवा दीर्घस्थितिकेषु सकृदपि उत्पत्स्यमानस्यासङ्ख्येयाः अनन्तश उत्पत्स्यमानस्यानन्ताः, 'एव'-1 मित्यादि, एवं-नैरयिकोक्तप्रकारेणासुरकुमारत्वे तदनन्तरं चतुर्विशतिदण्डकक्रमेण तावद् वक्तव्यं यावद्वैमानिकत्वविषयं सूत्रं, तचैवं-'एगमेगस्स णं भंते ! नेरइयस्स वेमाणियत्ते केवइया कोहसमुग्घाया अईया ?, गो० ! अणंता, केवइया पुरे०१, गो० ! कस्सइ अत्थि क० नत्थि, जस्सत्थि जह० एको वा दो वा तिण्णि वा उक्को० संखेज्जा वा असं० अणंता वा,' अत्राप्ययं भावार्थ:-अतीतचिन्तायामनन्ताः, अनन्तशो वैमानिकत्वस्य प्राप्तत्वात् , पुरस्कृतचिन्तायां योऽनन्तरभवे नरकादुदृत्तो मानुषत्वमवाप्य सेत्स्यति प्राप्तो वा परम्परया सकृद्वैमानिकभवं न क्रोधस
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484