Book Title: Pragnapanopangamsutram Part 02
Author(s): Malaygiri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 434
________________ 202928 प्रज्ञापनाया:मलयवृत्ती. ३६ समुद्घातपदं स्वपरस्थाने कषायस० सू. ॥५८६॥ वा वेदितव्यं, उत्कर्षतः सङ्ख्येवा वा असङ्ख्येया वा अनन्ता वा, तत्र सङ्ख्येयान् वारान् नरकमवमागामिनः सङ्ख्ययाः असङ्ख्येयान् वारान् असङ्ख्येयाः अनन्तान् वारान् अनन्ताः, तथा नैरयिकत्वस्यासुरकुमारत्वविषयेऽतीतसूत्रं तथैव भावनीयं, पुरस्कृतसूत्रे 'कस्सइ अस्थि क. पत्थि'त्ति यो नरकभवादुत्तो नासुरकुमारत्वं प्राप्स्यति तस्य न सन्यसुरकुमारत्वविषयाः पुरस्कृताः लोभसमुद्घाताः, वस्तु प्राप्स्यति तस्य सन्ति, ते च जघन्यपदे सङ्ख्येयाः, जघन्यस्थितावप्यसुरकुमाराणां सङ्ख्येयानां लोभसमुद्घातानां भावात् , लोभबहुलत्वात् तेषां, उत्कृष्टपदेऽसङ्ख्येया अनन्ता वा, तत्र सहीर्घस्थितावसकृजघन्यस्थितिषु दीस्थितिषु वा उत्पत्स्यमानानामवसेयं, अनन्तश उत्पत्स्यमानानामनन्ताः, एवं नैरयिकस्य नागकुमारत्वादिषु स्थानेषु निरन्तरं तावद्वक्तव्यं यावत्स्तनितकुमारत्वे, तथा चाह-‘एवं जाव थणियकुमारत्ते' पृथिवीकायिकत्वेऽतीतसूत्रं तथैव, पुरस्कृतचिन्तायां तु कस्यापि सन्ति कस्यापि न सन्ति, तत्र नरकादुद्दत्तो यो न पृथिवीकायिकत्वं प्राप्स्यति तख न सन्ति, योऽपि गन्ता तस्य जघन्यपदे एको द्वौ वा त्रयो वा | उत्कर्षतः सङ्ख्येया असङ्ख्येया अनन्ता वा, ते चैवम्-तिर्यपञ्चेन्द्रियभवात् मनुष्यभवाद्वा लोभसमुद्घातेन समुद्धतः सन् य एकं वारं पृथिवीं गन्ता तस्य एको द्वौ वारौ गन्तुद्वौं त्रीन् वारान् गन्तुस्त्रयः सङ्खयेयान् वारान् सङ्ख्येयाः असङ्ख्येयान् वारान् असङ्ख्येयाः अनन्तान् वारान् अनन्ताः, “एवं जाव मणूसत्ते' इति एवं-पृथिवीकायिकयतेनाभिलापप्रकारेण तावद्वक्तव्यं यावन्मनुष्यत्वे, तच्चैवं-'एगमेगस्स णं भंते ! नेरइयस्स आउकाइयत्ते' इत्यादि, याव ॥५८६॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484