Book Title: Pragnapanopangamsutram Part 02
Author(s): Malaygiri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 449
________________ बहिरात्मप्रदेशेभ्योऽपि विश्विष्टान् करोति, 'तेहि णं भंते ! पोग्गलेहिं केवइए खेत्ते अष्फुण्णे केवइए खित्ते फुडे ?, गो० ! सरीरप्पमाणमेत्ते विक्खभवाहलेणं नियमा छद्दिसिं एवइए खेत्ते अफुण्णे एवइए खेत्ते फुडे' कषायसमुघातो हि प्रथमं उद्भवति त्रसजीवानां तेषामेव तीव्रतराध्यवसायसम्भवाद, एकेन्द्रियाणां तु पूर्वभवानुवृत्तितः, त्रसजीवाश्च त्रसनाढ्यां न ततो वहिः, त्रसनाड्यां च व्यवस्थितः खशरीरप्रमाणं विष्कम्भबाहल्यं क्षेत्रमात्मविश्लिष्टैः पुद्गलैः भृतं षदिक्त्वमवश्यमुपपद्यते इति 'नियमा छद्दिसि' मित्युक्तम्, 'एवइए खेत्ते अफुण्णे एवइए खेत्ते फुडे' |इत्यादि सर्व समानं । सम्प्रति मरणसमुद्घातमभिधित्सुराह - 'जीवे णं भंते ! मारणंतियसमुग्धाएण' मित्यादि, इति पूर्ववत् भदन्त ! कश्चिन्मारणान्तिकसमुद्घातेन समवहतः समवहत्य च यान् पुद्गलान् तैजसादिशरीरान्तर्गतान् 'निच्छुभइ' इति विक्षिपति, आत्मप्रदेशेभ्यो विश्लिष्टान् करोति तैर्भदन्त ! पुद्गलैः कियत् क्षेत्रमापूर्ण कियत् क्षेत्रं भृतम् ?, भगवानाह - गौतम ! विष्कम्भवाहल्यतः शरीरप्रमाणमायामतो जघन्यतः खशरीरातिरेकाङ्गुलासङ्ख्येयभागमात्रं यदा तावन्मात्रे क्षेत्रे उत्पद्यते उत्कर्षतोऽसङ्ख्येयानि योजनानि एतच्च यदा तावति क्षेत्रे अन्यथा वा द्रष्टव्यम्, एकदिशि- एकस्यां दिशि न तु विदिशि स्वभावतो जीवप्रदेशानां दिशि गमनसम्भवात् एतावत् क्षेत्रमापूर्णमेतावत् क्षेत्रं स्पृष्टं जघन्यतः उत्कर्षतो वा आत्मप्रदेशैरपि एतावत् क्षेत्रस्य पूरणसम्भवात्, सम्प्रति विग्रहगतिमधिकृत्यापूरणविषयं स्पर्शनविषयं च कालप्रमाणमाह - 'से णं भंते !' इत्यादि, तत् उत्कर्षेणायामतोऽनन्तरोक्तप्रमाणं भद Jain Education Inal For Personal & Private Use Only ainelibrary.org

Loading...

Page Navigation
1 ... 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484