Book Title: Pragnapanopangamsutram Part 02
Author(s): Malaygiri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 467
________________ प्रदेशतोऽवश्यमनुभवनीयमिति प्रतिपत्तव्यं, एवं च न कश्चिदोषः, नन्वेवमपि दीर्घकालभोग्यतफा तछेदनीयादिकं कर्मोपचितं अथ च परिणामविशेषादुपक्रमेणारादेव तदनुभवति ततः कथं न कृतनाशदोषापत्तिः, तदप्यसम्यक, बन्धकाले तथाविधाध्यवसायवशादादावुपक्रमयोग्यस्यैव तेन बन्धनात्, अपिच-जिनक्चनप्रामाण्यादपि वेदनीयादिकर्मणामुपक्रमो मन्तव्यः, यदाह भाष्यकृत्-"उदयक्खयक्खओवसमोवसमा जंच कम्मुणो भणिया। दवाई पंचगं पड़ जुत्तमुवक्कमणमेत्तोवि ॥१॥" [उदयक्षयक्षयोपशमोपशमा यस्माच कर्मणो भणिताः। द्रव्यादिपञ्चक प्रति युक्तमुपक्रमणमितोऽपि ॥१॥] न चैवं मोक्षोपक्रमहेतुः कश्चिदस्ति येन तत्रानाथासप्रसङ्गः, यथा चन मोक्षोपक्रमहेतुः कश्चिदस्ति तथाऽन्तिमसूत्रे भावयिष्यते, ततो यदुक्तं 'वेदनीयादिवच कृतस्यापि कर्मक्षयस्से'त्यादि। न तत्सम्यगुपपन्नमिति स्थितं, अपर आह-ननु यदा वेदनीयादिकमतिप्रभूतं सर्वस्तोकं चायुस्तदा समधिकवेदीयादिसमुद्घातार्थ समुद्रातमारभतां, वेदनीयादेः सोपक्रमत्वात्, यदा त्वधिकमायुः सर्वस्तोकं च वेदनीयादिकं तदा का वार्ता ?, न खल्वायुषः समधिकस्य समुद्घाताय समुद्घातः कल्प्यते, चरमशरीरिणामायुषो निरुपक्रमत्वात् 'चरमसरीरा य निरुवकमा' इति वचनात् , तदयुक्तं, एवंविधभावस कदाचनाप्यभावात् , तथाहि-सर्वदैव वेदनीयाद्यवायुषः सकाशादधिकस्थितिकं भवति, न तु कदाचिदपि वेदनीयादेरायुः, अथैवंविधो नियमः कुतो लभ्यः | |ते?, उच्यते, परिणामखाभाव्यात, तथाहि-इत्थंभूत एवात्मनः परिणामो येनास्यायुर्वेदनीयादेः समं भवति Jaln Education tol ral For Personal & Private Use Only IN anelibrary.org

Loading...

Page Navigation
1 ... 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484