Book Title: Pragnapanopangamsutram Part 02
Author(s): Malaygiri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 468
________________ JM प्रज्ञापना- न्यूनं वा न तु कदाचनाप्यधिकं, यथैतस्यैवायुषः खल्वध्रुवबन्धः, तथाहि-ज्ञानावरणादीनि कर्माणि आयुर्वर्जानि याः मल-18 सप्तापि सदैव बध्यन्ते, आयुस्तु प्रतिनियत एव काले खभवत्रिभागादिशेषरूपे, तत्र चैवंविधवैचित्र्यनियमे न स्व- यवृत्ती. भावादृतेऽपरः कश्चिदस्ति हेतुरेवमिहापि स्वभावविशेष एव नियामको द्रष्टव्यः, आह च भाष्यकृत्-"असमठिईणं ॥६०३॥ नियमो को थेवं आउयं न सेसंति । परिणामसहावाओ अदुवबंधोवि तस्सेव ॥१॥" [असमस्थितिषु को नियमः-स्तोकमायुःन शेषाणि । परिणामस्वभावात् अध्रुवबन्धोऽपि तस्यैव ॥१॥] अथ विशेषपरिज्ञानाय गौतमो भगवन्तं पृच्छति-सवेवि णमित्यादि, णमिति निश्चये सर्वेऽपि खलु केवलिनः समवनन्ति-समुद्घाताय प्रयतन्ते, प्रयत्नानन्तरं च सर्वेऽपि खलु केवलिनः समुद्घातं गच्छन्ति ?, इति गौतमेन प्रश्ने कृते सति भगवान्निर्वचनमाह-गोयमे'त्यादि, गौतम ! नायमर्थः समर्थः-नायमर्थः उपपन्नः, किमुक्तं भवति ?-सर्वेऽपि केवलिनः समुद्घाताय न प्रयतन्ते नापि समुद्घातं गच्छन्ति, किन्तु येषामायुषः समधिकं वेदनीयादिकं, यस्य पुनः खभावत एवायुषा सह समस्थितिकानि वेदनीयादीनि कर्माणि सोऽकृतसमुद्घात एव तानि क्षपयित्वा सिध्यति, तथा चाह-'जस्से'त्यादि, यस्य केवलिन आयुषा सह भवे-मनुष्यभवे उप-समीपेन गृह्यते-अवष्टभ्यते यस्तानि भवोपन हाणि तानि च तानि कर्माणि च भवोपग्राहकर्माणि वेदनीयनामगोत्राणि बन्धनैः-प्रदेशैः स्थितिभिश्च तुल्याSनि-समानि भवन्ति स समुद्घातं न गच्छति, अकृतसमुद्घात एव तानि क्षपयित्वा स सिद्धिसौधमध्यास्ते इति ३६ समुद्घातपदे केवलिसमुद्धातप्रयोजनं आवजीकरणं केवलिसमु. द्धातःसू. ३४५-३४६ ३४७ ॥६०३॥ dain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484