Book Title: Pragnapanopangamsutram Part 02
Author(s): Malaygiri,
Publisher: Agamoday Samiti
View full book text
________________
प्रज्ञापना
याः मल
य० वृत्ती.
॥ ६०२ ॥
म्यात् गच्छति स ततः समुद्घातम् ॥ १ ॥ स्थित्या च बन्धनेन च समीक्रियार्थ हि कर्मणां तेषाम् । अन्तर्मुहूर्त्त - १३६ समुशेषे तदायुषि समुज्जिघांसति सः ॥ २ ॥ ननु प्रभूतस्थितिकस्य वेदनीयादेरायुषा सह समीकरणार्थं समुद्घातः मारभते इति यदुक्तं तन्नोपपन्नं, कृतनाशादिदोषप्रसङ्गात्, तथाहि - प्रभूतकालोपभोग्यस्य वेदनीयादेरारत एवापगमसम्भवात् कृतनाशः, वेदनीयादिनश्च कृतस्यापि कर्मक्षयस्य पुनर्नाशसम्भवान्मोक्षेऽप्यनाश्वासप्रसङ्गः, तदसत्, | कृतनाशादिदोषाप्रसङ्गात्, तथाहि - इह यथा प्रतिदिवसं सेतिकापरिभोगेन वर्षशतोपभोग्यस्य कल्पितस्याहारस्य भस्मकव्याधिना तत्सामर्थ्यात् स्तोकदिवसैर्निःशेषतः परिभोगान्न कृतनाशोपगमः तथा कर्म्मणोऽपि वेदनीयादेः | तथाविधशुभाध्यवसायानुबन्धादुपक्रमेण साकल्यतो भोगान्न कृतनाशरूपदोषप्रसङ्गः, द्विविधो हि कर्म्मणोऽनुभवःप्रदेशतो विपाकतश्च तत्र प्रदेशतः सकलमपि कर्मानुभूयते, न तदस्ति किञ्चित् कर्म यत्प्रदेशतोऽप्यननुभूतं सत् क्षयमुपयाति ततः कथं कृतनाशदोषापत्तिः १, विपाकतस्तु किञ्चिदनुभूयते किञ्चिन्न, अन्यथा मोक्षाभावप्रसङ्गात्, तथाहि यदि विपाकानुभूतित एव सर्व कर्म क्षपणीयमिति नियमः तर्ह्यसङ्ख्यातेषु भवेषु तथाविधविचित्राध्यवसायविशेषैर्यन्नरकगत्यादिकं कर्मोपार्जितं तस्य नैकस्मिन् मनुष्यादावेव भवेऽनुभवः, खखभवनिवन्धनत्वात् तथाविधविपाकानुभक्स्य, क्रमेण च खखभवानुगमनेन वेदने नारकादिभवेषु चारित्राभावेन प्रभूततरकर्मसन्तानोपचयात् तस्यापि स्वस्वभवानुगमनेनानुभवोपगमात् कुतो मोक्षः १, तस्मात् सर्वे कर्म विपाकतो भाज्यं
Jain Education International
For Personal & Private Use Only
दुधातपदे केवलिस
मुद्धातप्र
योजनं आवर्जी
करणं केव
लिसमु
द्धातः सृ. ३४५-३४६
३४७
॥६०२॥
www.jainelibrary.org

Page Navigation
1 ... 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484