Book Title: Pragnapanopangamsutram Part 02
Author(s): Malaygiri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 456
________________ प्रज्ञापनायाः मल य० वृत्तौ . ॥५९७ ॥ यिकेन वा त्रिसामयिकेन वा विग्रहेण आपूर्ण स्पृष्टमिति गम्यते, किमुक्तं भवति ? - विग्रहगतिमधिकृत्य मरणदशादारभ्य उत्पत्तिदेशं यावत् क्षेत्रस्यापूरणमुत्कर्षतः त्रिभिः समयैरवाप्यते न चतुर्थेनापि समयेन, वैक्रियसमुद्घातगतो हि वायुकायिकोऽपि प्रायासनाढ्यामेवोत्पद्यते, त्रसनाढ्यां च विग्रह उत्कर्षतोऽपि त्रिसामयिक इति, उपसंहारमाह - 'एवइकालस्स' इत्यादि सुगमं, 'सेसं तं चेवेत्यादि अत ऊर्द्ध शेषं सूत्रं तदेव - यत्प्राक् वेदनासमुद्घाते उक्तं तच तावत् यावदन्तिमपदं 'पंचकरियावि' इति, एवं 'नेरइएणवि' इत्यादि सूत्रं तु स्वयं भावनीयं यस्तु दिग्विदिगपेक्षया विशेषः स प्रागेव दर्शितः । सम्प्रति तैजससमुद्घातमभिधित्सुराह - 'जीवे णं भंते! तेयगसमुग्वापण' मित्यादि, सुगमं, नवरमयं तेजससमुद्घातश्चतुर्देव निकायतिर्यक्पञ्चेन्द्रियमनुष्याणां सम्भवति न शेषाणां, ते च महाप्रयत्नवन्त इति तेषां तेजस्समुद्घातमारभमाणानां जघन्यतोऽपि क्षेत्रमायामतोऽङ्गुलासङ्ख्येय भागप्रमाणं भवति, न तु सयेय भागमानं, उत्कर्षतः सङ्ख्येययोजनप्रमाणं तच जघन्यत उत्कर्षतो या यथोक्तप्रमाणं क्षेत्रं तिर्यक्पञ्चेन्द्रियवर्णानामेकस्यां दिशि विदिशि या वक्तव्यं, तिर्यक्पञ्चेन्द्रियाणां तु दिश्येव, अत्र युक्तिः प्रागुक्तैवानुसव्या, तथा चाह एवं जहा वेउचियसमुग्धाएं' इत्यादि । तदेवमुक्तस्तैजससमुद्घातः, साम्प्रतमाहारकसमुद्घा तं | प्रतिपिपादयिषुराह 'जीवे णं भंते!' इत्यादि, एतच्च सूत्रं तैजससमुद्घातवद्भावनीयं, नवरमयमाहारकसमुद्घातो मनुष्याणां तत्राप्यधीत चतुर्दशपूर्वाणं तत्रापि केषाञ्चिदेवाहारकलब्धिमतां न शेषाणां, ते चाहारकसमुद्घातमारभ Jain Education International For Personal & Private Use Only ३६ समुद्घातपदं समुद्धातपुनलस्प शदि स ३४३ ॥५९७॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484