________________
प्रज्ञापनायाः मल
य० वृत्तौ .
॥५९७ ॥
यिकेन वा त्रिसामयिकेन वा विग्रहेण आपूर्ण स्पृष्टमिति गम्यते, किमुक्तं भवति ? - विग्रहगतिमधिकृत्य मरणदशादारभ्य उत्पत्तिदेशं यावत् क्षेत्रस्यापूरणमुत्कर्षतः त्रिभिः समयैरवाप्यते न चतुर्थेनापि समयेन, वैक्रियसमुद्घातगतो हि वायुकायिकोऽपि प्रायासनाढ्यामेवोत्पद्यते, त्रसनाढ्यां च विग्रह उत्कर्षतोऽपि त्रिसामयिक इति, उपसंहारमाह - 'एवइकालस्स' इत्यादि सुगमं, 'सेसं तं चेवेत्यादि अत ऊर्द्ध शेषं सूत्रं तदेव - यत्प्राक् वेदनासमुद्घाते उक्तं तच तावत् यावदन्तिमपदं 'पंचकरियावि' इति, एवं 'नेरइएणवि' इत्यादि सूत्रं तु स्वयं भावनीयं यस्तु दिग्विदिगपेक्षया विशेषः स प्रागेव दर्शितः । सम्प्रति तैजससमुद्घातमभिधित्सुराह - 'जीवे णं भंते! तेयगसमुग्वापण' मित्यादि, सुगमं, नवरमयं तेजससमुद्घातश्चतुर्देव निकायतिर्यक्पञ्चेन्द्रियमनुष्याणां सम्भवति न शेषाणां, ते च महाप्रयत्नवन्त इति तेषां तेजस्समुद्घातमारभमाणानां जघन्यतोऽपि क्षेत्रमायामतोऽङ्गुलासङ्ख्येय भागप्रमाणं भवति, न तु सयेय भागमानं, उत्कर्षतः सङ्ख्येययोजनप्रमाणं तच जघन्यत उत्कर्षतो या यथोक्तप्रमाणं क्षेत्रं तिर्यक्पञ्चेन्द्रियवर्णानामेकस्यां दिशि विदिशि या वक्तव्यं, तिर्यक्पञ्चेन्द्रियाणां तु दिश्येव, अत्र युक्तिः प्रागुक्तैवानुसव्या, तथा चाह एवं जहा वेउचियसमुग्धाएं' इत्यादि । तदेवमुक्तस्तैजससमुद्घातः, साम्प्रतमाहारकसमुद्घा तं | प्रतिपिपादयिषुराह 'जीवे णं भंते!' इत्यादि, एतच्च सूत्रं तैजससमुद्घातवद्भावनीयं, नवरमयमाहारकसमुद्घातो मनुष्याणां तत्राप्यधीत चतुर्दशपूर्वाणं तत्रापि केषाञ्चिदेवाहारकलब्धिमतां न शेषाणां, ते चाहारकसमुद्घातमारभ
Jain Education International
For Personal & Private Use Only
३६ समुद्घातपदं
समुद्धातपुनलस्प शदि स
३४३
॥५९७॥
www.jainelibrary.org