Book Title: Pragnapanopangamsutram Part 02
Author(s): Malaygiri,
Publisher: Agamoday Samiti
View full book text
________________
न्ति-मूर्छापन्नान् कुर्वन्ति अपद्रावयन्ति-जीवितात् व्यपरोपयन्ति, तेभ्यः पुद्गलेभ्यः तेषां प्राणादीनां विषये भदन्त ! सः-अधिकृतो वेदनासमुद्घातगतो जीवः कतिक्रियः प्रज्ञप्तः ?, भगवानाह-गौतम ! 'सिय तिकिरिए' इति, स्यात्शब्दः कथञ्चित्पर्यायः, कथञ्चित् कदाचित् कांश्चिच्च जीवानधिकृत्येत्यर्थः त्रिक्रियः, किमुक्तं भवति ?-यदा न केषाञ्चित् सर्वथा परितापनं जीविताद् व्यपरोपणं वा करोति तदा सर्वथा त्रिक्रिय एव, यदापि केषाञ्चित्परितापं मरणं वाऽऽपादयति तदापि येषां नाबाधामुत्पादयति तदपेक्षया त्रिक्रियः, "सिय चउकिरिए' इति केषाश्चित्परितापकरणे तदपेक्षया चतुष्क्रिय इति, केषाञ्चिदपद्रावणे तदपेक्षया पञ्चक्रिय इति, सम्प्रति तमेवाधिकृतं वेदनासमुद्घातगतं जीवमधिकृत्य तेषां वेदनासमुद्घातगतपुरुषपुद्गलस्पृष्टानां जीवानां क्रिया निरूपयति-तेणं | भंते ! इत्यादि, ते-वेदनासमुद्घातगतपुद्गलस्पृष्टा णमिति पूर्ववत् भदन्त ! जीवास्ततो-वेदनासमुद्घातपरिगतान् जीवान् अत्र 'स्थानियपः कर्माधारयोः' इति स्थानिनं यपमधिकृत्य पञ्चमीयं, अयमर्थः-तं वेदनासमुद्घातपरिगतं जीवमधिकृत्य कतिक्रियाः प्रज्ञप्ताः, भगवानाह-गौतम ! स्यात्रिक्रियाः यदा न काञ्चित्तस्याबाधामापादयितुं प्रभविष्णवः, स्थाचतुष्क्रिया यदा तं परितापयन्ति, दृश्यन्ते शरीरेण स्पृश्यमानाः परितापयन्तो वृश्चिकादयः, स्यात् पञ्चक्रियाः ये तं जीवितादपि व्यपरोपयन्ति, सिद्धाश्च प्रत्यक्षतः शरीरेण स्पृश्यमाना जीविताच्यावयन्तः सदिय इति, सम्प्रति तेन वेदनासमुद्घातगतेन जीवेन व्यापाद्यमानर्जीवैर्येऽन्ये जीवा व्यापाद्यन्ते ये चान्यैर्जी
720000000000000000202
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484