Book Title: Pragnapanopangamsutram Part 02
Author(s): Malaygiri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 446
________________ प्रज्ञापना या:मल- यवृत्ती. ३६ समु. द्घातपदे समुद्धातपुद्गलपूरणादि सू. ३४२ ॥५९२॥ sacasses वाक्यशेषः, तत एतावता उत्कर्षतः त्रिसमयप्रमाणस्य कालस्य सम्बन्धि यथोक्तप्रमाणं क्षेत्रं वेदनाजननयोग्यः पुरलैरापूर्णमेतावता कालस्य सम्बन्धि स्पृष्टमिति। सम्प्रति यावन्तं कालं वेदनाजननयोग्यान् पुद्गलान् विक्षिपति तावत्कालप्रमाणं प्रतिपादनार्थमाह-'ते णं भंते !' इत्यादि, तान् वेदनाजननयोग्यान् पुद्गलान् णमिति वाक्यालङ्कारे भदन्त !-परमकल्याणयोगिन् परमसुखयोगिन् वा पुद्गलान् कियतः कालस्य सम्बन्धिनो विक्षिपति १, कियकालं वेदनाजननयोग्यान् विक्षिपतीति भावः, भगवानाह-जघन्येनाप्यन्तर्मुहूर्तस्य सम्बन्धिन उत्कर्षतोऽप्यन्तर्मु-1 हूर्तस्य, केवलं मनाक बृहत्तरस्य सम्बन्धिनः विक्षिपति, किमुक्तं भवति ?-ये पुद्गला जघन्यत उत्कर्षतश्चान्तर्मुहूर्त यावत् वेदनाजननसमर्थाः तान् तथा २ वेदनातः सन् खशरीरगतान् खशरीरादहिरात्मप्रदेशेभ्योऽपि विश्लिष्टान् विक्षिपति, यथाऽत्यन्तदाहज्वरपीडितः सन् सूक्ष्मपुद्गलान्, प्रत्यक्षसिद्धं चैतदिति, 'ते णं भंते !' इत्यादि, ते णमिति पूर्ववत् भदन्त ! पुद्गला विक्षिप्ताः सन्तः शरीरसम्बद्धा असम्बद्धा वा 'जाई तत्थे'त्यादि प्राकृतत्वात् पुंस्त्वेऽपि नपुंसकता यान् तत्र वेदनासमुद्घातगतपुरुषसंस्पृष्ट क्षेत्रेप्राणान्-द्वित्रिचतुरिन्द्रियान् शङ्ककीटिकामक्षिकादीन् भूतान्-वनस्पतीन् जीवान-पञ्चेन्द्रियान् गृहगोधिकासपोदीन् सत्त्वान्-शेषपृथिवीकायिकादीन् अभिन्नन्ति-अभिमुखमागच्छन्तो नन्ति वर्तयन्ति-आवर्तपतितान् कुर्वन्ति लेशयन्ति-मनाक स्पृशन्ति सङ्घातयन्ति-परस्परं तान् सवातमापन्नान् कुर्वन्ति सङ्घयन्ति-अतीव सङ्घातविशेषमापादितान् कुर्वन्ति परितापयन्ति-पीडयन्ति क्लमय ॥५९२॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484